सं ते॑ वा॒युर्मा॑त॒रिश्वा॑ दधातूत्ता॒नाया॒ हृद॑यं॒ यद्विक॑स्तम् । यो दे॒वानां॒ चर॑सि प्रा॒णथे॑न॒ कस्मै॑ देव॒ वष॑डस्तु॒ तुभ्य॑म्
saṁ te vāyúr mātáriśvā dadhātūttānā́yā hṛ́dayaṁ yád víkastam | yó devā́nāṁ cárasi prāṇáthena kásmai deva váṣaḍ astu túbhyam
May Vāyu, Mātariśvan, set in order for thee the heart of the outstretched (altar), that which is spread abroad. Thou who movest among the gods by vital breath—O god, to whom shall the Vaṣaṭ be? To thee indeed.
सम् । ते॑ । वा॒युः । मा॒त॒रिश्वा॑ । दधातु । उत्ता॒नायाः॑ । हृद॑यम् । यत् । विक॑स्तम् । यः । दे॒वानाम् । चर॑सि । प्रा॒णथा॑-इति । एन॑ । कस्मै॑ । देव । वष॑ट् । अ॒स्तु । तुभ्य॑म् ।