Bali Mahārāja Upholds Truth; Vāmana Reveals the Universal Form and Takes the Two Steps
हृद्यङ्ग धर्मं स्तनयोर्मुरारे- र्ऋतं च सत्यं च मनस्यथेन्दुम् । श्रियं च वक्षस्यरविन्दहस्तां कण्ठे च सामानि समस्तरेफान् ॥ २५ ॥ इन्द्रप्रधानानमरान्भुजेषु तत्कर्णयो: ककुभो द्यौश्च मूर्ध्नि । केशेषु मेघाञ्छ्वसनं नासिकाया- मक्ष्णोश्च सूर्यं वदने च वह्निम् ॥ २६ ॥ वाण्यां च छन्दांसि रसे जलेशं भ्रुवोर्निषेधं च विधिं च पक्ष्मसु । अहश्च रात्रिं च परस्य पुंसो मन्युं ललाटेऽधर एव लोभम् ॥ २७ ॥ स्पर्शे च कामं नृप रेतसाम्भ: पृष्ठे त्वधर्मं क्रमणेषु यज्ञम् । छायासु मृत्युं हसिते च मायां तनूरुहेष्वोषधिजातयश्च ॥ २८ ॥ नदीश्च नाडीषु शिला नखेषु बुद्धावजं देवगणानृषींश्च । प्राणेषु गात्रे स्थिरजङ्गमानि सर्वाणि भूतानि ददर्श वीर: ॥ २९ ॥
hṛdy aṅga dharmaṁ stanayor murārer ṛtaṁ ca satyaṁ ca manasy athendum śriyaṁ ca vakṣasy aravinda-hastāṁ kaṇṭhe ca sāmāni samasta-rephān
اے بادشاہ! بلی نے مُراری کے دل میں دھرم کو، سینے پر رِت اور سچائی کو، من میں چاند کو؛ چھاتی پر کنول ہاتھ والی شری (لکشمی) کو؛ گلے میں سب وید اور تمام نغمہ و ناد کو؛ بازوؤں میں اندرَ پرمکھ دیوتاؤں کو؛ دونوں کانوں میں سمتوں کو؛ سر پر اعلیٰ لوکوں کو؛ بالوں میں بادلوں کو؛ ناک میں ہوا کو؛ آنکھوں میں سورج کو اور منہ میں آگ کو دیکھا۔