Katharudra
प्रत्यगात्मतया भाति ज्ञानाद्वेदान्तवाक्यजात् ॥
शुद्धमीश्वरचैतन्यं जीवचैतन्यमेव च ।
प्रमाता च प्रमाणं च प्रमेयं च फलं तथा ॥
इति सप्तविधं प्रोक्तं भिद्यते व्यवहारतः ।
मायोपाधिविनिर्मुक्तं शुद्धमित्यभिधीयते ॥
मायासंबन्धतश्चेशो जीवोऽविद्यावशस्तथा ।
अन्तःकरणसंबन्धात्प्रमातेत्यभिधीयते ॥
तथा तद्वृत्तिसंबन्धात्प्रमाणमिति कथ्यते ।
अज्ञातमपि चैतन्यं प्रमेयमिति कथ्यते ॥
तथा ज्ञातं च चैतन्यं फलमित्यभिधीयते ॥
प्रत्यक्-आत्मतया भाति । ज्ञानात् वेदान्त-वाक्य-जात् ॥
शुद्धम् ईश्वर-चैतन्यम् । जीव-चैतन्यम् एव च ।
प्रमाता च । प्रमाणम् च । प्रमेयम् च । फलम् तथा ॥
इति सप्त-विधम् प्रोक्तम् । भिद्यते व्यवहारतः ।
माया-उपाधि-विनिर्मुक्तम् शुद्धम् इति अभिधीयते ॥
माया-सम्बन्धतः च ईशः । जीवः अविद्या-वशः तथा ।
अन्तःकरण-सम्बन्धात् प्रमाता इति अभिधीयते ॥
तथा तत्-वृत्ति-सम्बन्धात् प्रमाणम् इति कथ्यते ।
अज्ञातम् अपि चैतन्यम् प्रमेयम् इति कथ्यते ॥
तथा ज्ञातम् च चैतन्यम् फलम् इति अभिधीयते ॥
pratyagātmatayā bhāti jñānād vedāntavākyajāt ||
śuddham īśvaracaitanyaṃ jīvacaitanyam eva ca |
pramātā ca pramāṇaṃ ca prameyaṃ ca phalaṃ tathā ||
iti saptavidhaṃ proktaṃ bhidyate vyavahārataḥ |
māyopādhivinirmuktaṃ śuddham ity abhidhīyate ||
māyāsambandhataś ceśo jīvo’vidyāvaśas tathā |
antaḥkaraṇasambandhāt pramātety abhidhīyate ||
tathā tadvṛttisambandhāt pramāṇam iti kathyate |
ajñātam api caitanyaṃ prameyam iti kathyate ||
tathā jñātaṃ ca caitanyaṃ phalam ity abhidhīyate ||
จากญาณที่เกิดจากประโยคเวทานตะ (อาตมัน) ส่องสว่างเป็นตนภายใน ‘บริสุทธิ์’, ‘จิตสำนึกของอีศวร’, ‘จิตสำนึกของชีวะ’ และยังมี ‘ผู้รู้’, ‘เครื่องมือแห่งความรู้’, ‘อารมณ์แห่งความรู้’, และ ‘ผล’—ทั้งหมดนี้ประกาศว่าเป็นเจ็ดประการ แยกกันเพียงตามการใช้ในวิถีโลกเท่านั้น เมื่อพ้นจากอุปาธิของมายา เรียกว่า ‘บริสุทธิ์’ เมื่อเกี่ยวข้องกับมายา ย่อมเป็น ‘อีศวร’; เมื่ออยู่ใต้อวิทยา ย่อมเป็น ‘ชีวะ’ เมื่อเกี่ยวข้องกับอันตหกรณะ เรียกว่า ‘ผู้รู้’; เมื่อเกี่ยวข้องกับวฤตติ เรียกว่า ‘เครื่องมือแห่งความรู้’ จิตสำนึกแม้ยังไม่ถูกรู้ เรียกว่า ‘อารมณ์’; และจิตสำนึกเมื่อถูกรู้แล้ว เรียกว่า ‘ผล’
From the knowledge born of Vedāntic sentences, the (Self) shines as the inward Self. ‘Pure’, ‘Īśvara-consciousness’, ‘jīva-consciousness’, and also ‘knower’, ‘means of knowledge’, ‘object of knowledge’, and ‘result’—this is declared as sevenfold, differentiated only in empirical usage. Freed from the adjunct of māyā it is termed ‘pure’. Through connection with māyā it is Īśvara; as subject to avidyā it is the jīva. Through connection with the inner organ it is called the knower; through connection with its vṛtti it is called the means of knowledge. Consciousness, though unknown, is called the object; consciousness, when known, is called the result.