अत्य॒न्याँ२ अगां॒ नान्याँ२ उपा॑गाम॒र्वाक् त्वा॒ परे॒भ्योऽवि॑दं प॒रोऽव॑रेभ्यः । तं त्वा॑ जुषामहे देव वनस्पते देवय॒ज्यायै॑ दे॒वास्त्वा॑ देवय॒ज्यायै॑ जुषन्तां॒ विष्ण॑वे त्वा । ओष॑धे॒ त्राय॑स्व स्वधि॑ते॒ मैन॑ᳪ हिᳪसीः
áty anyā́ṃ agāṃ nā́nyā́ṃ upā́gām arvā́k tvā párebhyo’vídaṃ páro’várebhyaḥ | táṃ tvā juṣāmahe deva vanaspate devayajyā́yai devā́s tvā devayajyā́yai juṣantāṃ víṣṇave tvā | óṣadhe trā́yasva svadhite mā́inaṃ hiṃsīḥ
Past one I went, not to another did I go; hitherward I found thee, from those afar, yea from those nearer. Thee we accept with favour, O divine Lord of the Forest, for the worship of the Gods; may the Gods accept thee with favour for the worship of the Gods—(we take) thee for Viṣṇu. O Plant, protect thyself; O Axe, do not injure it!
अति । अ॒न्याम् । अगाम् । न । अ॒न्याम् । उप॑-अगाम् । अ॒र्वाक् । त्वा । परे॒भ्यः । अवि॑दम् । प॒रः । अव॑रेभ्यः । तम् । त्वा । जुषामहे । देव । वनस्पते । देव-य॒ज्यायै॑ । दे॒वाः । त्वा । देव-य॒ज्यायै॑ । जुषन्ताम् । विष्ण॑वे । त्वा । ओष॑धे । त्राय॑स्व । स्वधि॑ते । मा । एनम् । हिᳪसीः ।