पि॒तृभ्य॑: स्वधा॒यिभ्य॑: स्व॒धा नम॑: पिताम॒हेभ्य॑: स्वधा॒यिभ्य॑: स्व॒धा नम॒: प्रपि॑तामहेभ्यः स्वधा॒यिभ्य॑: स्व॒धा नम॑: । अक्ष॑न् पि॒तरो ऽमी॑मदन्त पि॒तरो ऽती॑तृपन्त पि॒तर॒: पित॑र॒: शुन्ध॑ध्वम्
pitṛ́bhyaḥ svadhā́yibhyaḥ svadhā́ námaḥ pitāmahébhyaḥ svadhā́yibhyaḥ svadhā́ námaḥ prapitāmahébhyaḥ svadhā́yibhyaḥ svadhā́ námaḥ | ákṣan pitáro ’mīmádanta pitáro ’tītṛpanta pitáraḥ pitáraḥ śúndhadhvam ||
แด่บรรพชนทั้งหลาย ผู้เสวยสวธา (Svadhā)—สวธา! นอบน้อม! แด่ปู่ย่าตายาย ผู้เสวยสวธา—สวธา! นอบน้อม! แด่ปู่ทวด ผู้เสวยสวธา—สวธา! นอบน้อม! บรรพชนได้เสวยแล้ว; บรรพชนได้ยินดีแล้ว; บรรพชนได้อิ่มเอมบริบูรณ์แล้ว. บรรพชนเอ๋ย บรรพชนเอ๋ย จงชำระตนให้บริสุทธิ์เถิด.
पितृभ्यः । स्वधायिभ्यः । स्वधा । नमः । पितामहेभ्यः । स्वधायिभ्यः । स्वधा । नमः । प्रपितामहेभ्यः । स्वधायिभ्यः । स्वधा । नमः । अक्षन् । पितरः । अमीमदन्त । पितरः । अतीतृपन्त । पितरः । पितरः । शुन्धध्वम् ।