नम॑: प॒र्णाय॑ च पर्णश॒दाय॑ च॒ नम॑ उद्गु॒रमा॑णाय चाभिघ्न॒ते च॒ नम॑ आखिद॒ते च॑ प्रखिद॒ते च॒ नम॑ इषु॒कृद्भ्यो॑ धनु॒ष्कृद्भ्य॑श्च वो॒ नमो॒ नमो॑ वः किरि॒केभ्यो॑ दे॒वाना॒ᳪ हृद॑येभ्यो॒ नमो॑ विचिन्व॒त्केभ्यो॒ नमो॑ विक्षिण॒त्केभ्यो॒ नम॑ आनिर्ह॒तेभ्य॑:
námaḥ párṇāya ca parṇaśadā̀ya ca náma udguramāṇā̀ya cābhighnaté ca náma ākhidaté ca prakhidaté ca náma iṣukṛ́dbhyo dhanuṣkṛ́dbhyaś ca vo námo námo vaḥ kirikébhyo devā́nāṃ hṛ́dayyebhyo námo vicinvátkebhyo námo vikṣiṇátkebhyo náma ānírhatébhyaḥ
ขอนอบน้อมแด่ใบไม้ และแด่ผู้สถิตอยู่ในใบไม้นั้น ขอนอบน้อมแด่ผู้ผุดลุกขึ้น และแด่ผู้ฟาดฟัน ขอนอบน้อมแด่ผู้แทงทะลุ และแด่ผู้แทงทะลุอย่างรุนแรง ขอนอบน้อมแด่ท่านทั้งหลาย ผู้ทำลูกศรและผู้ทำคันธนู นอบน้อม นอบน้อมแด่ท่านทั้งหลาย โอ้คิริกะ (Kirika) ผู้สถิตอยู่ในดวงหทัยของเหล่าเทพ ขอนอบน้อมแด่ผู้สืบค้น ขอนอบน้อมแด่ผู้ลอกออก ขอนอบน้อมแด่ผู้ขับไล่ทั้งหลาย
नमः । पर्णाय । च । पर्णशदाय । च । नमः । उद्गुरमाणाय । च । अभिघ्नते । च । नमः । आखिदते । च । प्रखिदते । च । नमः । इषुकृद्भ्यः । धनुष्कृद्भ्यः । च । वः । नमः । नमः । वः । किरिकेभ्यः । देवानाम् । हृदय्येभ्यः । नमः । विचिन्वत्केभ्यः । नमः । विक्षिणत्केभ्यः । नमः । आनिर्हतेभ्यः