नम॒: सेना॑भ्यः सेना॒निभ्य॑श्च वो॒ नमो॒ नमो॑ र॒थिभ्यो॑ अर॒तेभ्य॑श्च वो॒ नमो॒ नम॑: क्ष॒त्तृभ्य॑: संग्रही॒तृभ्य॑श्च वो॒ नमो॒ नमो॑ म॒हद्भ्यो॑ अर्भ॒केभ्य॑श्च वो॒ नम॑:
námaḥ sénābhyaḥ senāńibhyaś ca vo námo námo rathíbhyo aratébhyaś ca vo námo námaḥ kṣattṛ́bhyaḥ saṃgrahītṛ́bhyaś ca vo námo námo mahádbhyo arbhakébhyaś ca vo námaḥ
ขอนอบน้อมแด่กองทัพทั้งหลาย (senā) และแด่ผู้นำกองทัพ (senānī) ทั้งหลาย—ขอนอบน้อมแด่ท่านทั้งหลาย. ขอนอบน้อมแด่นักรบรถศึก (rathin) และแด่นักรบเดินเท้า (arati) ทั้งหลาย—ขอนอบน้อมแด่ท่านทั้งหลาย. ขอนอบน้อมแด่ข้าราชสำนัก/มหาดเล็ก (kṣattṛ) และแด่ผู้รวบรวม/ผู้จัดเก็บ (saṃgrahītṛ) ทั้งหลาย—ขอนอบน้อมแด่ท่านทั้งหลาย. ขอนอบน้อมแด่ผู้ยิ่งใหญ่ (mahat) และแด่ผู้น้อย/ผู้เล็ก (arbhaka) ทั้งหลาย—ขอนอบน้อมแด่ท่านทั้งหลาย.
नमः । सेनाभ्यः । सेनानिभ्यः । च । वः । नमः । नमः । रथिभ्यः । अरतेभ्यः । च । वः । नमः । नमः । क्षत्तृभ्यः । संग्रहीतृभ्यः । च । वः । नमः । नमः । महद्भ्यः । अर्भकेभ्यः । च । वः । नमः ।