आ वा॒चो मध्य॑मरुहद्भुर॒ण्युर॒यम॒ग्निः सत्प॑ति॒श्चेकि॑तानः । पृ॒ष्ठे पृ॑थि॒व्या निहि॑तो॒ दवि॑द्युतद॒धस्प॒दं कृ॑णुतां॒ ये पृ॑त॒न्यव॑:
ā́ vā́co mádhyam aruhad bhuraṇyúr ayám agníḥ sátpatiś cékītānaḥ | pṛṣṭhé pṛthivyā́ níhito dávidyutad adháspadaṃ kṛṇutāṃ yé pṛtanýavaḥ
ผู้ว่องไวได้ขึ้นสู่ที่นั่งกลางแห่งวาจาแล้ว; อัคนี (Agni) นี้ ผู้เป็นเจ้าแห่งผู้ดีงาม ได้ปรากฏชัด. เมื่อถูกวางไว้บนหลังแห่งปฐพี เขาก็ส่องวาบออกมา; ขอให้ผู้มุ่งวิวาททั้งหลายจัดหาที่เหยียบอันต่ำกว่าให้ตนเองเถิด.
आ । वाचः । मध्यम् । अरुहत् । भुरण्युः । अयम् । अग्निः । सत्पतिः । चेकीतानः । पृष्ठे । पृथिव्याः । निहितः । दविद्युतत् । अधः-पदम् । कृणुताम् । ये । पृतन्यवः ।