Sukta 6.60
तमीळिष्व यो अर्चिषा वना विश्वा परिष्वजत् । कृष्णा कृणोति जिह्वया ॥
तमी॑ळिष्व॒ यो अ॒र्चिषा॒ वना॒ विश्वा॑ परि॒ष्वज॑त् । कृ॒ष्णा कृ॒णोति॑ जि॒ह्वया॑ ॥
tám īḷiṣva yó arcíṣā vánā víśvā pariṣvájat | kṛṣṇā́ kṛṇóti jihváyā ||
จงสรรเสริญพระองค์นั้น—ผู้ซึ่งด้วยเปลวเพลิงโอบล้อมพงไพรทั้งปวง; ผู้ซึ่งด้วยลิ้นของพระองค์ทำให้สิ่งมืดดำสว่างไสวเพื่อการงาน
तम् । ई॒ळि॒ष्व॒ । यः । अ॒र्चिषा॑ । वना॑ । विश्वा॑ । प॒रि॒ऽस्वज॑त् । कृ॒ष्णा । कृ॒णोति॑ । जि॒ह्वया॑ ॥तम् । ईळिष्व । यः । अर्चिषा । वना । विश्वा । परिस्वजत् । कृष्णा । कृणोति । जिह्वया ॥tam | īḷiṣva | yaḥ | arciṣā | vanā | viśvā | pari-svajat | kṛṣṇā | kṛṇoti | jihvayā