Sukta 1.164
स्त्रियः सतीस्ताँ उ मे पुंस आहुः पश्यदक्षण्वान्न वि चेतदन्धः । कविर्यः पुत्रः स ईमा चिकेत यस्ता विजानात्स पितुष्पितासत् ॥
स्त्रिय॑: स॒तीस्ताँ उ॑ मे पुं॒स आ॑हु॒: पश्य॑दक्ष॒ण्वान्न वि चे॑तद॒न्धः । क॒विर्यः पु॒त्रः स ई॒मा चि॑केत॒ यस्ता वि॑जा॒नात्स पि॒तुष्पि॒तास॑त् ॥
stríyaḥ satī́s tā́m̐ u me púṁsa āāhuḥ páśyad akṣaṇvā́n ná ví cetad andháḥ | kavír yáḥ putráḥ sá īmā́ ciketa yás tā́ vijānā́t sá pitúṣ pitā́ asat ||
นางทั้งหลายเป็นพลังฝ่ายหญิงโดยแท้ แต่บุรุษกลับเรียกนางว่าเป็นฝ่ายชาย; แม้ผู้มีตาก็มิได้หยั่งรู้—ความมืดบอดพลาดความจริง. ทว่า กวี ผู้เป็นบุตร ได้รู้แจ้งสิ่งเหล่านี้; ผู้ใดรู้จักนางทั้งหลาย ผู้นั้นย่อมเป็น “บิดาแห่งบิดา”.
स्त्रियः॑ । स॒तीः । तान् । ऊँ॒ इति॑ । मे॒ । पुं॒सः । आ॑आ॒हुः॒ । पश्य॑त् । अ॒क्ष॒ण्ऽवान् । न । वि । चे॒त॒त् । अ॒न्धः । क॒विः । यः । पु॒त्रः । सः । ई॒म् । आ । चि॒के॒त॒ । यः । ता । वि॒ऽजा॒नात् । सः । पि॒तुः । पि॒ता । अ॒स॒त् ॥स्त्रियः । सतीः । तान् । ऊँ इति । मे । पुंसः । आआहुः । पश्यत् । अक्षण्वान् । न । वि । चेतत् । अन्धः । कविः । यः । पुत्रः । सः । ईम् । आ । चिकेत । यः । ता । विजानात् । सः । पितुः । पिता । असत् ॥striyaḥ | satīḥ | tān | oṃ iti | me | puṃsaḥ | āāhuḥ | paśyat | akṣaṇ-vān | na | vi | cetat | andhaḥ | kaviḥ | yaḥ | putraḥ | saḥ | īm | ā | ciketa | yaḥ | tā | vi-jānāt | saḥ | pituḥ | pitā | asat