Sukta 1.120
श्रुतं गायत्रं तकवानस्याहं चिद्धि रिरेभाश्विना वाम् । आक्षी शुभस्पती दन् ॥
श्रु॒तं गा॑य॒त्रं तक॑वानस्या॒हं चि॒द्धि रि॒रेभा॑श्विना वाम् । आक्षी शु॑भस्पती॒ दन् ॥
śrútaṃ gā́yatram takavā́nasyāháṃ ciddhí rirébhāśvinā vām | ā́kṣī śúbhaspatī dán ||
ข้าพเจ้าได้สดับคาถาไกยตรี (Gāyatrī) ของทกวาน (Takavān); และข้าพเจ้า ผู้ขับร้อง ก็เรียกท่านทั้งสอง อัศวิน จงมาเถิด—ขอประทานดวงตาคู่ที่สว่างไสว โอ้เจ้าแห่งความงามทั้งหลาย.
श्रु॒तम् । गा॒य॒त्रम् । तक॑वानस्य । अ॒हन् । चि॒त् । हि । रि॒रेभ॑ । अ॒श्वि॒ना॒ । वा॒म् । आ । अ॒क्षी इति॑ । शु॒भः॒ । प॒ती॒ इति॑ । दन् ॥श्रुतम् । गायत्रम् । तकवानस्य । अहन् । चित् । हि । रिरेभ । अश्विना । वाम् । आ । अक्षी इति । शुभः । पती इति । दन् ॥śrutam | gāyatram | takavānasya | ahan | cit | hi | rirebha | aśvinā | vām | ā | akṣī iti | śubhaḥ | patī iti | dan