Sukta 1.117
शतं मेषान्वृक्ये मामहानं तमः प्रणीतमशिवेन पित्रा । आक्षी ऋज्राश्वे अश्विनावधत्तं ज्योतिरन्धाय चक्रथुर्विचक्षे ॥
श॒तं मे॒षान्वृ॒क्ये॑ मामहा॒नं तम॒: प्रणी॑त॒मशि॑वेन पि॒त्रा । आक्षी ऋ॒ज्राश्वे॑ अश्विनावधत्तं॒ ज्योति॑र॒न्धाय॑ चक्रथुर्वि॒चक्षे॑ ॥
śatáṃ meṣā́n vṛ́kye mamahā́naṃ támaḥ práṇītam áśivena pitrā́ | ā́kṣī ṛ́jrāśve aśvināv adhattáṃ jyótir andhā́ya cakrathur vicákṣe ||
เมื่อริชราศวะ (Rijrāśva) มอบแกะเพศผู้หนึ่งร้อยตัวแก่หมาป่าตัวเมีย บิดาผู้ไร้เมตตาก็นำเขาเข้าสู่ความมืด โอ อัศวินทั้งสอง ท่านได้ประทานดวงตาให้แก่เขา; ท่านได้บันดาลแสงสว่างแก่คนตาบอด เพื่อให้เขาเห็นด้วยญาณทัศนะอันแจ่มชัด
श॒तम् । मे॒षान् । वृ॒क्ये॑ । म॒म॒हा॒नम् । तमः॑ । प्रऽणी॑तम् । अशि॑वेन । पि॒त्रा । आ । अ॒क्षी इति॑ । ऋ॒ज्रऽअ॑श्वे । अ॒श्वि॒नौ॒ । अ॒ध॒त्त॒म् । ज्योतिः॑ । अ॒न्धाय॑ । च॒क्र॒थुः॒ । वि॒ऽचक्षे॑ ॥शतम् । मेषान् । वृक्ये । ममहानम् । तमः । प्रणीतम् । अशिवेन । पित्रा । आ । अक्षी इति । ऋज्रअश्वे । अश्विनौ । अधत्तम् । ज्योतिः । अन्धाय । चक्रथुः । विचक्षे ॥śatam | meṣān | vṛkye | mamahānam | tamaḥ | pra-ṇītam | aśivena | pitrā | ā | akṣī iti | ṛjra-aśve | aśvinau | adhattam | jyotiḥ | andhāya | cakrathuḥ | vi-cakṣe