होता॑ यक्ष॒द्वन॒स्पति॑म॒भि हि पि॒ष्टत॑मया॒ रभि॑ष्ठया रश॒नयाधि॑त । यत्रा॒श्विनो॒श्छाग॑स्य ह॒विष॑: प्रि॒या धामा॑नि॒ यत्र॒ सर॑स्वत्या मे॒षस्य॑ ह॒विष॑: प्रि॒या धामा॑नि॒ यत्रेन्द्र॑स्य ऋष॒भस्य॑ ह॒विष॑: प्रि॒या धामा॑नि॒ यत्रा॒ग्नेः प्रि॒या धामा॑नि॒ यत्र॒ सोम॑स्य प्रि॒या धामा॑नि॒ यत्रेन्द्र॑स्य सु॒त्राम्ण॑: प्रि॒या धामा॑नि॒ यत्र॑ सवि॒तुः प्रि॒या धामा॑नि॒ यत्र॒ वरु॑णस्य प्रि॒या धामा॑नि॒ यत्र॒ वन॒स्पते॑: प्रि॒या पाथा॑ᳪसि॒ यत्र॑ दे॒वाना॑माज्य॒पानां॑ प्रि॒या धामा॑नि॒ यत्रा॒ग्नेर्होतु॑: प्रि॒या धामा॑नि॒ तत्रै॒तान्प्र॒स्तुत्ये॑वोप॒स्तुत्ये॑वो॒पाव॑स्रक्ष॒द्रभी॑यस इव कृ॒त्वी कर॑दे॒वं दे॒वो वन॒स्पति॑र्जु॒षता॑ᳪ ह॒विर्होत॒र्यज॑
hótā yákṣad vanaspátim abhí hí piṣṭátamayā rábhiṣṭhayā raśanáyā́dhita | yátrāśvinóś chā́gasya havíṣaḥ priyā́ dhā́māni yátra sárasvatyā meṣásya havíṣaḥ priyā́ dhā́māni yátrendrásya ṛṣabhásya havíṣaḥ priyā́ dhā́māni yátrāgnéḥ priyā́ dhā́māni yátra sómasya priyā́ dhā́māni yátrendrásya sutrā́mṇaḥ priyā́ dhā́māni yátra savitúḥ priyā́ dhā́māni yátra váruṇasya priyā́ dhā́māni yátra vanaspáteḥ priyā́ pā́thāṃsi yátra devā́nām ājyapā́nāṃ priyā́ dhā́māni yátrāgnér hotúḥ priyā́ dhā́māni tátraítān prástutyevā́vopástutyevā́vopā́vasrakṣad rábhīyasa iva kṛtvī́ karadévam devó vanaspátir juṣátāṃ havír hotar yája
హోతా వనస్పతి కోసం యజించుగాక; ఎందుకంటే అతడు అత్యంత పిష్టమైన (దృఢంగా నొక్కబడిన) మరియు అత్యంత దృఢమైన రశన (తాడు/బంధం)తో బంధింపబడ్డాడు. ఎక్కడ అశ్వినుల కోసం ఛాగ (మేక) హవికి ప్రియమైన ధామాలు ఉన్నాయో; ఎక్కడ సరస్వతీ కోసం మేష (గొర్రె/మేషం) హవికి ప్రియమైన ధామాలు ఉన్నాయో; ఎక్కడ ఇంద్రుడు—ఋషభుడు—హవికి ప్రియమైన ధామాలు; ఎక్కడ అగ్నికి ప్రియమైన ధామాలు; ఎక్కడ సోమానికి ప్రియమైన ధామాలు; ఎక్కడ సుత్రామన్ ఇంద్రునికి ప్రియమైన ధామాలు; ఎక్కడ సవితృకు ప్రియమైన ధామాలు; ఎక్కడ వరుణునికి ప్రియమైన ధామాలు; ఎక్కడ, హే వనస్పతే, నీ ప్రియమైన పాథాలు (మార్గాలు/స్థానాలు) ఉన్నాయో; ఎక్కడ ఆజ్యపాన దేవుల ప్రియమైన ధామాలు; ఎక్కడ అగ్ని-హోతృ యొక్క ప్రియమైన ధామాలు—అక్కడే వీటిని ప్రస్తుతి చేసి, ఉపస్తుతి చేసి, మరింత దృఢంగా (రభీయస్) చేసినట్లుగా, దేవ వనస్పతి హవిని జుష్టంగా స్వీకరించుగాక. హే హోతః, యజించు.
होता । यक्षत् । वनस्पतिम् । अभि । हि । पिष्टतमया । रभिष्ठया । रशनया । अधित । यत्र । अश्विनोः । छागस्य । हविषः । प्रियाः । धामानि । यत्र । सरस्वत्याः । मेषस्य । हविषः । प्रियाः । धामानि । यत्र । इन्द्रस्य । ऋषभस्य । हविषः । प्रियाः । धामानि । यत्र । अग्नेः । प्रियाः । धामानि । यत्र । सोमस्य । प्रियाः । धामानि । यत्र । इन्द्रस्य । सुत्राम्णः । प्रियाः । धामानि । यत्र । सवितुः । प्रियाः । धामानि । यत्र । वरुणस्य । प्रियाः । धामानि । यत्र । वनस्पतेः । प्रियाः । पाथांसि । यत्र । देवानाम् । आज्यपानाम् । प्रियाः । धामानि । यत्र । अग्नेः । होतुः । प्रियाः । धामानि । तत्र । एतान् । प्रस्तुत्येव । उपस्तुत्येव । उपावस्रक्षत् । रभीयसः । इव । कृत्वि । करदेवम् । देवः । वनस्पतिः । जुषताम् । हविः । होतः । यज