ऋ॒ता॒षाडृ॒तधा॑मा॒ऽग्निर्ग॑न्ध॒र्वस्तस्यौ॑षधयोऽप्स॒रसो॒ मुदो॒ नाम॑ । स न॑ इ॒दं ब्रह्म॑ क्ष॒त्रं पा॑तु॒ तस्मै॒ स्वाहा॒ वाट् ताभ्य॒: स्वाहा॑
r̥tāṣā́ḍ r̥tádhāmā́ ’gnír gandharvás tásyauṣadhayo ’psaráso múdo nā́ma | sá na idáṃ bráhma kṣatráṃ pātu tásmai svā́hā vā́ṭ tā́bhyaḥ svā́hā ||
ఋతంతో జయించువాడు, ఋతమే ధామముగా (నియమం/ఆధారం) కలవాడు—ఆ అగ్నియే గంధర్వుడు; అతనివే ఔషధులు; ‘ముదా’ అనే నామముగల అప్సరసులు అతనివే. ఈ బ్రహ్మం (పౌరోహిత తేజస్సు) మరియు ఈ క్షత్రం (రాజ తేజస్సు) మాకు రక్షణ కలుగజేయుగాక. అతనికి స్వాహా! వాట్! వారికి స్వాహా!
ऋताषाट् । ऋतधामा । अग्निः । गन्धर्वः । तस्य । ओषधयः । अप्सरसः । मुदः । नाम । सः । नः । इदम् । ब्रह्म । क्षत्रम् । पातु । तस्मै । स्वाहा । वाट् । ताभ्यः । स्वाहा ।