Sukta 1.164
यत्रा सुपर्णा अमृतस्य भागमनिमेषं विदथाभिस्वरन्ति । इनो विश्वस्य भुवनस्य गोपाः स मा धीरः पाकमत्रा विवेश ॥
यत्रा॑ सुप॒र्णा अ॒मृत॑स्य भा॒गमनि॑मेषं वि॒दथा॑भि॒स्वर॑न्ति । इ॒नो विश्व॑स्य॒ भुव॑नस्य गो॒पाः स मा॒ धीर॒: पाक॒मत्रा वि॑वेश ॥
yátrā suparṇā́ amṛ́tasya bhāgám ánimēṣaṃ vidáthābhí svaránti | inó víśvasya bhúvanasya gopā́ḥ sá mā dhī́raḥ pā́kam atrā́ viveśa ||
ఎక్కడ సుపర్ణులు నిమేషం లేని అమృతభాగం కోసం విదథ-సభలలో స్వరం ఎత్తుతారో, అక్కడే సమస్త భువనానికి శక్తిమంతుడైన గోపా ప్రవేశిస్తాడు; ఆ ధీరుడు (ఋషి) ఇక్కడ నాలోనూ ప్రవేశించుగాక—నేను ఇంకా అపక్వుడనైనా.
यत्र॑ । सु॒ऽप॒र्णा । अ॒मृत॑स्य । भा॒गम् । अनि॑ऽमेषम् । वि॒दथा॑ । अ॒भि॒ऽस्वर॑न्ति । इ॒नः । विश्व॑स्य । भुव॑नस्य । गो॒पाः । सः । मा॒ । धीरः॑ । पाक॑म् । अत्र॑ । आ । वि॒वे॒श॒ ॥यत्र । सुपर्णा । अमृतस्य । भागम् । अनिमेषम् । विदथा । अभिस्वरन्ति । इनः । विश्वस्य । भुवनस्य । गोपाः । सः । मा । धीरः । पाकम् । अत्र । आ । विवेश ॥yatra | su-parṇā | amṛtasya | bhāgam | animeṣam | vidathā | abhi-svaranti | inaḥ | viśvasya | bhuvanasya | gopāḥ | saḥ | mā | dhīraḥ | pākam | atra | ā | viveśa