Yogatattva
एतेषां लक्षणं ब्रह्मन् प्रत्येकं शृणु तत्त्वतः ।
लघ्वाहारो यमेष्वेको मुख्या भवति नेतरः ॥
अहिंसा नियमेष्वेका मुख्या वै चतुरानन ।
सिद्धं पद्मं तथा सिंहं भद्रं चेति चतुष्टयम् ॥२८–२९॥
एतेषाम् । लक्षणम् । ब्रह्मन् । प्रत्येकम् । शृणु । तत्त्वतः ।
लघु-आहारः । यमेषु । एकः । मुख्यः । भवति । न । इतरः ।
अहिंसा । नियमेषु । एका । मुख्या । वै । चतुरानन ।
सिद्धम् । पद्मम् । तथा । सिंहम् । भद्रम् । च । इति । चतुष्टयम् ।
eteṣāṃ lakṣaṇaṃ brahman pratyekaṃ śṛṇu tattvataḥ |
laghvāhāro yameṣv eko mukhyā bhavati netaraḥ ||
ahiṃsā niyameṣv ekā mukhyā vai caturānana |
siddhaṃ padmaṃ tathā siṃhaṃ bhadraṃ ceti catuṣṭayam ||28–29||
ஹே பிரஹ்மன் (பிரஹ்மா), இவற்றின் இலக்கணங்களை ஒவ்வொன்றாகத் தத்துவமாகக் கேள். யமங்களில் லக்வாஹாரம் (மிதாஹாரம்) ஒன்றே முதன்மை; மற்றவை அல்ல. நியமங்களில் அஹிம்சை ஒன்றே முதன்மை, ஹே சதுரானன. ஆசனங்கள்—சித்த, பத்ம, சிம்ஹ, பத்ர—இவை நான்கு.
O Brahman (O Brahmā), hear the characteristics of these, each one, in accordance with reality. Among the yamas, light (moderate) eating alone is primary, not the others. Among the niyamas, non-violence alone is indeed primary, O four-faced one. (As for) postures: Siddha, Padma, Siṃha, and Bhadra—these are the four.