Sita
तथा दिशन्त्याभिचारसामान्येन पृथक्पृथक् । एकविंशतिशाखायामृग्वेदः परिकीर्तितः । शतं च नवशाखासु यजुषामेव जन्मनाम् । साम्नः सहस्रशाखाः स्युः पञ्चशाखा अथर्वणः । वैखानसमतस्तस्मिन्नादौ प्रत्यक्षदर्शनम् । स्मर्यते मुनिभिर्नित्यं वैखानसमतः परम् । कल्पो व्याकरणं शिक्षा निरुक्तं ज्योतिषं छन्दः—एतानि षडङ्गानि; उपाङ्गमयनं चैव मीमांसान्यायविस्तरः । धर्मज्ञसेवितार्थं च वेदवेदोऽधिकं तथा । निबन्धाः सर्वशाखा च समयाचारसङ्गतिः । धर्मशास्त्रं महर्षिणामन्तःकरणसम्भृतम् । इतिहासपुराणाख्यमुपाङ्गं च प्रकीर्तितम् । वास्तुवेदो धनुर्वेदो गान्धर्वश्च तथा मुने । आयुर्वेदश्च पञ्चैते उपवेदाः प्रकीर्तिताः । दण्डो नीतिश्च वार्ता च विद्या वायुजयः परः । एकविंशतिभेदोऽयं स्वप्रकाशः प्रकीर्तितः ॥२४–३१॥
तथा । दिशन्ति । आभिचार-सामान्येन । पृथक्-पृथक् । एकविंशति-शाखायाम् । ऋग्वेदः । परिकीर्तितः । शतम् । च । नव-शाखासु । यजुषाम्-एव । जन्मनाम् । साम्नः । सहस्र-शाखाः । स्युः । पञ्च-शाखाः । अथर्वणः । वैखानस-मतः । तस्मिन् । आदौ । प्रत्यक्ष-दर्शनम् । स्मर्यते । मुनिभिः । नित्यम् । वैखानस-मतः । परम् । कल्पः । व्याकरणम् । शिक्षा । निरुक्तम् । ज्योतिषम् । छन्दः । एतानि । षट्-अङ्गानि । उपाङ्ग-मयनम् । च । एव । मीमांसा-न्याय-विस्तरः । धर्मज्ञ-सेवित-अर्थम् । च । वेद-वेदः । अधिकम् । तथा । निबन्धाः । सर्व-शाखाः । च । समय-आचार-सङ्गतिः । धर्म-शास्त्रम् । महर्षिणाम् । अन्तःकरण-सम्भृतम् । इतिहास-पुराण-आख्यम् । उपाङ्गम् । च । प्रकीर्तितम् । वास्तु-वेदः । धनुः-वेदः । गान्धर्वः । च । तथा । मुने । आयुः-वेदः । च । पञ्च । एते । उप-वेदाः । प्रकीर्तिताः । दण्डः । नीतिः । च । वार्ता । च । विद्या । वायु-जयः । परः । एकविंशति-भेदः । अयम् । स्व-प्रकाशः । प्रकीर्तितः ॥
tathā diśanty ābhicāra-sāmānyena pṛthak-pṛthak | ekaviṃśatiśākhāyām ṛgvedaḥ parikīrtitaḥ | śataṃ ca navaśākhāsu yajuṣām eva janmanām | sāmnaḥ sahasraśākhāḥ syuḥ pañcaśākhā atharvaṇaḥ | vaikhānasamataḥ tasminn ādau pratyakṣadarśanam | smaryate munibhir nityaṃ vaikhānasamataḥ param | kalpo vyākaraṇaṃ śikṣā niruktaṃ jyotiṣaṃ chandaḥ—etāni ṣaḍaṅgāni; upāṅgamayanaṃ caiva mīmāṃsānyāyavistaraḥ | dharmajñasevitārthaṃ ca vedavedo'dhikaṃ tathā | nibandhāḥ sarvaśākhā ca samayācārasaṅgatiḥ | dharmaśāstraṃ maharṣiṇām antaḥkaraṇasambhṛtam | itihāsapurāṇākhyam upāṅgaṃ ca prakīrtitam | vāstuvedo dhanurvedo gāndharvaś ca tathā mune | āyurvedaś ca pañcaite upavedāḥ prakīrtitāḥ | daṇḍo nītiś ca vārtā ca vidyā vāyujayaḥ paraḥ | ekaviṃśatibhedo'yaṃ svaprakāśaḥ prakīrtitaḥ ||24–31||
இவ்வாறு அவை தத்தம் பயன்பாடுகளின்படி பொதுவாகத் தனித்தனியாக உபதேசிக்கப்படுகின்றன. ரிக் வேதத்திற்கு இருபத்தொன்று சாகைகள், யஜுர்வேதத்திற்கு நூற்று ஒன்பது சாகைகள், சாமவேதத்திற்கு ஆயிரம் சாகைகள், அதர்வவேதத்திற்கு ஐந்து சாகைகள் என்று கூறப்படுகிறது. அந்த மரபில் வைखானஸ மதி ஆதியில் பிரத்யக்ஷ-தரிசனமாக இருந்து, முனிவர்கள் அதை நித்தமும் பரமமென நினைவுகூர்கிறார்கள். கல்பம், வியாகரணம், சிக்ஷா, நிருக்தம், ஜ்யோதிஷம், சந்தஸ்—இவை ஆறு வேதாங்கங்கள்; மேலும் உபாங்கங்களாக மீமாம்சை, நியாய விரிவும் கூறப்படுகிறது. தர்மஞானிகளின் நோக்கத்தை நிறைவேற்ற ‘வேத-வேத’ (துணை நூல்கள்), நிபந்தங்கள், எல்லா சாகைகளும், சமய-ஆசார ஒத்திசைவும் சொல்லப்படுகிறது. மகரிஷிகளின் தர்மசாஸ்திரம் அந்தக்கரணத்தில் தங்கியதாகக் கருதப்படுகிறது. இதிகாச-புராணம் எனும் உபாங்கமும் பிரகடனமாகிறது. ஓ முனியே, வாஸ்துவேதம், தனுர்வேதம், காந்தர்வம், ஆயுர்வேதம்—இவை ஐந்து உபவேதங்கள் என்று கீர்த்திக்கப்படுகின்றன. தண்டம், நீதி, வார்த்தா, வித்யா, பரம வாயுஜயம்—இவ்விருபத்தொன்று வகைப் பிரிவு ஸ்வப்ரகாசமாக அறிவிக்கப்படுகிறது.
Thus they are taught separately, in general, according to (their) distinct applications. The Ṛgveda is declared to have twenty-one branches; the Yajus has one hundred and nine branches; the Sāman is said to have a thousand branches; the Atharvan has five branches. In that (tradition) the Vaikhānasa doctrine is, at the beginning, a direct seeing (pratyakṣa-darśana); the sages always remember the Vaikhānasa doctrine as supreme. Kalpa, Vyākaraṇa, Śikṣā, Nirukta, Jyotiṣa, and Chandas—these are the six limbs (vedāṅgas); and the auxiliary disciplines include the elaborations of Mīmāṃsā and Nyāya. Also (there are) the ‘Veda-of-the-Veda’ (i.e., supplementary treatises) serving the aims sought by knowers of dharma; compendia, all branches, and the concordance of customary conduct. The Dharmaśāstra of the great seers is held within the inner faculty. The auxiliary (upāṅga) called Itihāsa and Purāṇa is also proclaimed. O sage, Vāstu-veda, Dhanur-veda, Gāndharva, and Āyurveda—these five are proclaimed as the subsidiary Vedas (upavedas). Punishment/authority (daṇḍa), polity (nīti), commerce/agriculture (vārttā), learning (vidyā), and the supreme conquest of wind (vāyu-jaya)—this twenty-onefold classification is declared as self-luminous.