Brahmavidya
तेनेदं निष्कलं विद्यात् क्षीरात् सर्पिर्यथा तथा । कारणेनात्मना युक्तः प्राणायामैश्च पञ्चभिः ॥ चतुष्कला समायुक्तो भ्राम्यते च हृदिस्थितः । गोलकस्तु यदा देहे क्षीरदण्डेन वा हतः ॥ एतस्मिन् वसते शीघ्रम् अविश्रान्तं महाखगः । यावन्निश्वसितो जीवस् तावन्निष्कलतां गतः ॥१७-१९॥
तेन । इदम् । निष्कलम् । विद्यात् । क्षीरात् । सर्पिः । यथा । तथा । कारणेन । आत्मना । युक्तः । प्राणायामैः । च । पञ्चभिः ॥ चतुः-कलाः । समायुक्तः । भ्राम्यते । च । हृदि-स्थितः । गोलकः । तु । यदा । देहे । क्षीर-दण्डेन । वा । हतः ॥ एतस्मिन् । वसते । शीघ्रम् । अविश्रान्तम् । महा-खगः । यावत् । निःश्वसितः । जीवः । तावत् । निष्कलताम् । गतः ॥
tenedaṃ niṣkalaṃ vidyāt kṣīrāt sarpir yathā tathā | kāraṇenātmanā yuktaḥ prāṇāyāmaiś ca pañcabhiḥ || catuṣkalā samāyukto bhrāmyate ca hṛdisthitaḥ | golakas tu yadā dehe kṣīradaṇḍena vā hataḥ || etasmin vasate śīghram aviśrāntaṃ mahākhagaḥ | yāvan niśvasito jīvas tāvan niṣkalatāṃ gataḥ ||17–19||
அந்த முறையால் இந்த ஆத்மத்தத்துவத்தை நிஷ்கலமாக அறிய வேண்டும்; பால் இருந்து நெய் கிடைப்பதுபோல். காரணாத்மாவுடன் இணைந்து, ஐந்து பிராணாயாமங்களால் யுக்தனாய், நான்கு கலைகளால் நிறைந்தவனாய், இதயத்தில் நிலைத்து அலைகிறான். உடலின் ‘கோலகம்’ க்ஷீரதண்டத்தால் தாக்கப்படும்போது, அங்கே மகாககன் விரைவாகவும் இடையறாதும் வாசம் செய்கிறான்; ஜீவன் சுவாசிக்கும் வரையில் அவன் நிஷ்கலத்துவத்தில் நிலைபெறுகிறான்॥১৭॥
By that (method) one should know this (Self) as partless, as ghee (is obtained) from milk. United with the causal Self and with the five prāṇāyāmas, endowed with four ‘parts’, it moves about while situated in the heart. But when the ‘sphere’ in the body is struck by the milk-stick, the great bird dwells there swiftly, unceasingly; as long as the jīva breathes, so long it has attained partlessness.