Avadhuta
कृतं कृत्यं प्रापणीयं प्राप्तमित्येव नित्यशः । व्यवहारो लौकिको वा शास्त्रीयो वान्यथापि वा । ममाकर्तुरलेपस्य यथारब्धं प्रवर्तताम् ॥२४-२५॥
कृतम् । कृत्यम् । प्रापणीयम् । प्राप्तम् । इति । एव । नित्यशः । व्यवहारः । लौकिकः । वा । शास्त्रीयः । वा । अन्यथा-अपि । वा । मम । अकर्तुः । अलेपस्य । यथा-आरब्धम् । प्रवर्तताम् ॥२४-२५॥
kṛtaṃ kṛtyaṃ prāpaṇīyaṃ prāptam ity eva nityaśaḥ | vyavahāro laukiko vā śāstrīyo vānyathāpi vā | mamākartur alepasya yathārabdhaṃ pravartatām ||24-25||
‘செய்யவேண்டியது செய்து முடிந்தது; அடையவேண்டியது அடைந்தாயிற்று’—இவ்வாறே எப்போதும். நான் அகర్తா, அலிப்தன்; உலகியலோ சாஸ்த்ரீயமோ வேறெதுவோ ஆகிய வியவஹாரம் ப்ராரப்தத்தின்படி நடைபெறட்டும்.
‘What had to be done is done; what was to be attained is attained’—thus indeed always. Let transaction—worldly or scriptural or otherwise—proceed according to what has already begun, for me who am a non-agent and untouched.