Atma
नावृत्तिर्ब्रह्मणः क्वाचिदन्याभावादनावृतम् । अस्तीति प्रत्ययो यश्च यश्च नास्तीति वस्तुनि ॥
बुद्धेरेव गुणावेतौ न तु नित्यस्य वस्तुनः । अतस्तौ मायया क्लृप्तौ बन्धमोक्षौ न चात्मनि ॥ २८–२९ ॥
न । आवृत्तिः । ब्रह्मणः । क्वचित् । अन्य-अभावात् । अनावृतम् ।
अस्ति-इति । प्रत्ययः । यः । च । यः । च । न-अस्ति-इति । वस्तुनि ।
बुद्धेः । एव । गुणौ । एतौ । न । तु । नित्यस्य । वस्तुनः ।
अतः । तौ । मायया । क्लृप्तौ । बन्ध-मोक्षौ । न । च । आत्मनि ।
nāvṛttir brahmaṇaḥ kvacid anyābhāvād anāvṛtam | astīti pratyayo yaś ca yaś ca nāstīti vastuni ||
buddher eva guṇāv etau na tu nityasya vastunaḥ | atas tau māyayā klṛptau bandhamokṣau na cātmani || 28–29 ||
பிரம்மத்திற்கு எங்கும் ஆவரணம் இல்லை; பிரம்மத்தைத் தவிர வேறொன்றும் இல்லாததால் அது எப்போதும் அனாவரிதமே. ஒரு பொருளைப் பற்றி ‘இது உள்ளது’ ‘இது இல்லை’ என்ற இரு அறிவுகளும் புத்தியின் குணங்களே; நித்திய சத்தியவஸ்துவின் அல்ல.
There is no covering of Brahman anywhere, for, due to the absence of anything other (than Brahman), it is uncovered. The cognition ‘it exists’ and the cognition ‘it does not exist’ with regard to a thing—both are qualities of the intellect alone, not of the eternal Reality. Therefore those two—bondage and liberation—are fabricated by māyā and are not in the Self.