मा नो॑ म॒हान्त॑मु॒त मा नो॑ अर्भ॒कं मा न॒ उक्ष॑न्तमु॒त मा न॑ उक्षि॒तम् । मा नो॑ वधीः पि॒तरं॒ मोत मा॒तरं॒ मा न॑: प्रि॒यास्त॒न्वो॒ रुद्र रीरिषः
mā́ no mahā́ntam utá mā́ no arbhakáṃ mā́ na ukṣántam utá mā́ na ukṣitám | mā́ no vadhīḥ pitáraṃ mótá mātáraṃ mā́ naḥ priyā́s tanvò rudra rīriṣaḥ
எங்கள் பெரியவரை கொல்லாதே; எங்கள் சிறியவரையும் கொல்லாதே; வளர்ந்து வரும் இளைஞனை கொல்லாதே; முழு வயதடைந்தவனையும் கொல்லாதே. எங்கள் தந்தையை கொல்லாதே; எங்கள் தாயையும் கொல்லாதே; ஹே ருத்ரா, எங்கள் அன்பான உடல்களை (தனு) சேதப்படுத்தாதே.
मा । नः । महान्तम् । उत । मा । नः । अर्भकम् । मा । नः । उक्षन्तम् । उत । मा । नः । उक्षितम् । मा । नः । वधीः । पितरम् । मा । उत । मातरम् । मा । नः । प्रियाः । तन्वः । रुद्र । रीरिषः