Sukta 9.107
तरत्समुद्रं पवमान ऊर्मिणा राजा देव ऋतं बृहत् । अर्षन्मित्रस्य वरुणस्य धर्मणा प्र हिन्वान ऋतं बृहत् ॥
तर॑त्समु॒द्रं पव॑मान ऊ॒र्मिणा॒ राजा॑ दे॒व ऋ॒तं बृ॒हत् । अर्ष॑न्मि॒त्रस्य॒ वरु॑णस्य॒ धर्म॑णा॒ प्र हि॑न्वा॒न ऋ॒तं बृ॒हत् ॥
tárat-samudráṃ pávamāna ū́rmiṇā rājā́ devá ṛtáṃ bṛhát | árṣan mitrásya váruṇasya dhármaṇā prá hinvāná ṛtáṃ bṛhát ||
பவமானனாகிய தெய்வீக அரசன் தன் அலை (ஊர்மி) உடன் சமுத்திரத்தைத் தாண்டுகிறான்; அவன் ‘ருதம் ப்ருஹத்’—விரிந்த சத்தியத்தில்—இயங்குகிறான். மித்ரன், வருணன் ஆகியோரின் தர்மத்தின்படி அவன் பாய்கிறான்; தூண்டப்பட்டு முன்னே செல்கிறான்—‘ருதம் ப்ருஹத்’ எனும் அந்தப் பெருஞ்சத்தியத்தை நோக்கி.
तर॑त् । स॒मु॒द्रम् । पव॑मानः । ऊ॒र्मिणा॑ । राजा॑ । दे॒वः । ऋ॒तम् । बृ॒हत् । अर्ष॑त् । मि॒त्रस्य॑ । वरु॑णस्य । धर्म॑णा । प्र । हि॒न्वा॒नः । ऋ॒तम् । बृ॒हत् ॥तरत् । समुद्रम् । पवमानः । ऊर्मिणा । राजा । देवः । ऋतम् । बृहत् । अर्षत् । मित्रस्य । वरुणस्य । धर्मणा । प्र । हिन्वानः । ऋतम् । बृहत् ॥tarat | samudram | pavamānaḥ | ūrmiṇā | rājā | devaḥ | ṛtam | bṛhat | arṣat | mitrasya | varuṇasya | dharmaṇā | pra | hinvānaḥ | ṛtam | bṛhat