Sukta 8.66
सोम इद्वः सुतो अस्तु कलयो मा बिभीतन । अपेदेष ध्वस्मायति स्वयं घैषो अपायति ॥
सोम॒ इद्व॑: सु॒तो अ॑स्तु॒ कल॑यो॒ मा बि॑भीतन । अपेदे॒ष ध्व॒स्माय॑ति स्व॒यं घै॒षो अपा॑यति ॥
sóma íd vaḥ sutó astu kálayo mā bibhītana | apéd eṣá dhvasmā́yati svayáṃ gha eṣó apā́yati ||
ஓ சிறியவர்களே! உங்களுக்காக சோமம் நிச்சயமாக பிழியப்படட்டும்—அஞ்சாதீர்கள். இந்த சிதைவூட்டும் இருள் அகல்கிறது; அது தானாகவே விலகுகிறது, தானாகவே பின்னோக்கி சரிகிறது. ஆனந்தம் (சோமரசம்) வெளிப்படும் போது, அழிவின் சக்திகள் நிலைநிற்றல் இயலாது.
सोमः॑ । इत् । वः॒ । सु॒तः । अ॒स्तु॒ । कल॑यः । मा । बि॒भी॒त॒न॒ । अप॑ । इत् । ए॒षः ध्व॒स्मा । अ॒य॒ति॒ । स्व॒यम् । घ॒ । ए॒षः । अप॑ । अ॒य॒ति॒ ॥सोमः । इत् । वः । सुतः । अस्तु । कलयः । मा । बिभीतन । अप । इत् । एषः ध्वस्मा । अयति । स्वयम् । घ । एषः । अप । अयति ॥somaḥ | it | vaḥ | sutaḥ | astu | kalayaḥ | mā | bibhītana | apa | it | eṣaḥ dhvasmā | ayati | svayam | gha | eṣaḥ | apa | ayati