Sukta 8.66
वयं घा ते अपूर्व्येन्द्र ब्रह्माणि वृत्रहन् । पुरूतमासः पुरुहूत वज्रिवो भृतिं न प्र भरामसि ॥
व॒यं घा॑ ते॒ अपू॒र्व्येन्द्र॒ ब्रह्मा॑णि वृत्रहन् । पु॒रू॒तमा॑सः पुरुहूत वज्रिवो भृ॒तिं न प्र भ॑रामसि ॥
vayáṃ ghā te apū́rvyéndra bráhmāṇi vṛtrahan | purū́-tamāsaḥ puruhūta vajrivo bhṛtíṃ na prá bharāmasi ||
ஹே இந்திரா, வ்ருத்ரஹன்! உனக்காக எப்போதும் புதுமையான, அபூர்வமான பிரஹ்ம (ஸ்துதி-வாக்குகள்) நாங்கள் அர்ப்பணிக்கிறோம். ஹே புரூதமா, புருஹூதா, வஜ்ரிவனே! அவற்றைத் தாங்கும் ‘ப்ருதி’ போல—ஆதாரம்போல்—நாங்கள் முன்வைத்து அர்ப்பணிக்கிறோம்.
व॒यम् । घ॒ । ते॒ । अपू॑र्व्या । इन्द्र॑ । ब्रह्मा॑णि । वृ॒त्र॒ऽह॒न् । पु॒रु॒ऽतमा॑सः । पु॒रु॒ऽहू॒त॒ । व॒ज्रि॒ऽवः॒ । भृ॒ति॑म् । न । प्र । भ॒रा॒म॒सि॒ ॥वयम् । घ । ते । अपूर्व्या । इन्द्र । ब्रह्माणि । वृत्रहन् । पुरुतमासः । पुरुहूत । वज्रिवः । भृतिम् । न । प्र । भरामसि ॥vayam | gha | te | apūrvyā | indra | brahmāṇi | vṛtra-han | puru-tamāsaḥ | puru-hūta | vajri-vaḥ | bhṛtim | na | pra | bharāmasi