Sukta 8.47
निष्कं वा घा कृणवते स्रजं वा दुहितर्दिवः । त्रिते दुष्ष्वप्न्यं सर्वमाप्त्ये परि दद्मस्यनेहसो व ऊतयः सुतयो व ऊतयः ॥
नि॒ष्कं वा॑ घा कृ॒णव॑ते॒ स्रजं॑ वा दुहितर्दिवः । त्रि॒ते दु॒ष्ष्वप्न्यं॒ सर्व॑मा॒प्त्ये परि॑ दद्मस्यने॒हसो॑ व ऊ॒तय॑: सु॒तयो॑ व ऊ॒तय॑: ॥
niṣkáṃ vā ghā kṛṇávate srájaṃ vā duhitar divaḥ | trité duḥ-svápnyaṃ sárvam āptyé pári dadmasy anehasaḥ vo ūtáyaḥ su-ūtáyaḥ vo ūtáyaḥ ||
வானத்தின் மகளே (உஷஸ்)! அவன் நிஷ்கம் (பொன் கழுத்தணிகலம்) செய்தாலும், ஸ்ரஜ் (மாலை) செய்தாலும்—அனைத்து துஷ்ஸ்வப்ந்யம் (தீய கனவால் உண்டாகும் தீங்கு) திரித ஆப்த்யனைச் சுற்றிலும் வைத்து அங்கேயே கட்டிப் பிணைத்துவிடு. உன் அஹிம்சக உதவிகள், உன் நல்வழி உதவிகள் எங்களுடன் இருப்பனவாக.
नि॒ष्कम् । वा॒ । घ॒ । कृ॒णव॑ते । स्रज॑म् । वा॒ । दु॒हि॒तः॒ । दि॒वः॒ । त्रि॒ते । दुः॒ऽस्वप्न्य॑म् । सर्व॑म् । आ॒प्त्ये । परि॑ । द॒द्म॒सि॒ । अ॒ने॒हसः॑ । वः॒ । ऊ॒तयः॑ । सु॒ऽऊ॒तयः॑ । वः॒ । ऊ॒तयः॑ ॥निष्कम् । वा । घ । कृणवते । स्रजम् । वा । दुहितः । दिवः । त्रिते । दुःस्वप्न्यम् । सर्वम् । आप्त्ये । परि । दद्मसि । अनेहसः । वः । ऊतयः । सुऊतयः । वः । ऊतयः ॥niṣkam | vā | gha | kṛṇavate | srajam | vā | duhitaḥ | divaḥ | trite | duḥ-svapnyam | sarvam | āptye | pari | dadmasi | anehasaḥ | vaḥ | ūtayaḥ | su-ūtayaḥ | vaḥ | ūtayaḥ