Sukta 8.103
आग्ने याहि मरुत्सखा रुद्रेभिः सोमपीतये । सोभर्या उप सुष्टुतिं मादयस्व स्वर्णरे ॥
आग्ने॑ याहि म॒रुत्स॑खा रु॒द्रेभि॒: सोम॑पीतये । सोभ॑र्या॒ उप॑ सुष्टु॒तिं मा॒दय॑स्व॒ स्व॑र्णरे ॥
ā́gne yā́hi marút-sakhā rudrébhiḥ sóma-pītaye | sóbharyā́ úpa su-stutíṃ mā́dayasva svàr-nare ||
ஓ அக்னியே, மருதர்களின் நண்பனே, ருத்ரர்களுடன் சோமபானத்திற்காக வா. சோபர்யாக்களின் நன்கு அமைந்த ஸ்துதியை அணுகி வா; ஒளிமிகு (ஸ்வர்ண) உலகின் நரனே, அதில் மகிழ்ந்து மயங்குவாயாக.
आ । अ॒ग्ने॒ । या॒हि॒ । म॒रुत्ऽस॑खा । रु॒द्रेभिः॑ । सोम॑ऽपीतये । सोभ॑र्याः॒ । उप॑ । सु॒ऽस्तु॒तिम् । मा॒दय॑स्व । स्वः॑ऽनरे ॥आ । अग्ने । याहि । मरुत्सखा । रुद्रेभिः । सोमपीतये । सोभर्याः । उप । सुस्तुतिम् । मादयस्व । स्वःनरे ॥ā | agne | yāhi | marut-sakhā | rudrebhiḥ | soma-pītaye | sobharyāḥ | upa | su-stuti m | mādayasva | svaḥ-nare