Sukta 6.61
सरस्वत्यभि नो नेषि वस्यो माप स्फरीः पयसा मा न आ धक् । जुषस्व नः सख्या वेश्या च मा त्वत्क्षेत्राण्यरणानि गन्म ॥
सर॑स्वत्य॒भि नो॑ नेषि॒ वस्यो॒ माप॑ स्फरी॒: पय॑सा॒ मा न॒ आ ध॑क् । जु॒षस्व॑ नः स॒ख्या वे॒श्या॑ च॒ मा त्वत्क्षेत्रा॒ण्यर॑णानि गन्म ॥
sárasvaty abhí no neṣi vásyo mā́pa spharī́ḥ páyasā mā́ na ā́ dhak | júṣasva naḥ sakhyā́ veśyā́ ca mā́ tvát kṣétrāṇy áraṇāni ganma ||
ஓ சரஸ்வதி, எங்களை மேன்மையான நிறைவு-செழிப்பின் வழி நடத்துவாயாக; எங்களைத் தள்ளிவிடாதே—உன் போஷகப் பாயசப் பெருக்கால் எங்களைத் தாக்காதே. எங்கள் சখ্যத்தையும் நெருக்கத்தையும் ஏற்றருள்வாயாக; உன்னை விட்டு உயிரோட்டமற்ற வறண்ட நிலங்களுக்கு நாம் போகாதிருப்போமாக.
सर॑स्वति । अ॒भि । नः॒ । ने॒षि॒ । वस्यः॑ । मा । अप॑ । स्फ॒रीः॒ । पय॑सा । मा । नः॒ । आ । ध॒क् । जु॒षस्व॑ । नः॒ । स॒ख्या । वे॒श्या॑ । च॒ । मा । त्वत् । क्षेत्रा॑णि । अर॑णानि । ग॒न्म॒ ॥सरस्वति । अभि । नः । नेषि । वस्यः । मा । अप । स्फरीः । पयसा । मा । नः । आ । धक् । जुषस्व । नः । सख्या । वेश्या । च । मा । त्वत् । क्षेत्राणि । अरणानि । गन्म ॥sarasvati | abhi | naḥ | neṣi | vasyaḥ | mā | apa | spharīḥ | payasā | mā | naḥ | ā | dhak | juṣasva | naḥ | sakhyā | veśyā | ca | mā | tvat | kṣetrāṇi | araṇāni | ganma