Sukta 6.60
इन्द्राग्नी शृणुतं हवं यजमानस्य सुन्वतः । वीतं हव्यान्या गतं पिबतं सोम्यं मधु ॥
इन्द्रा॑ग्नी शृणु॒तं हवं॒ यज॑मानस्य सुन्व॒तः । वी॒तं ह॒व्यान्या ग॑तं॒ पिब॑तं सो॒म्यं मधु॑ ॥
indrāgnī śṛṇutaṃ havaṃ yajamānasya sunvataḥ | vītaṃ havyāny ā gataṃ pibataṃ somyaṃ madhu ||
இந்திரா-அக்னீ, சோமத்தைப் பிழியும் யஜமானனின் அழைப்பை கேளுங்கள். ஹவ்யங்களை ஏற்று இங்கே வாருங்கள்; சோம்ய மது—சோமத்தின் இனிய ரசத்தை—அருந்துங்கள்.
इन्द्रा॑ग्नी॒ इति॑ । शृ॒णु॒तम् । हव॑म् । यज॑मानस्य । सु॒न्व॒तः । वी॒तम् । ह॒व्यानि॑ । आ । ग॒त॒म् । पिब॑तम् । सो॒म्यम् । मधु॑ ॥इन्द्राग्नी इति । शृणुतम् । हवम् । यजमानस्य । सुन्वतः । वीतम् । हव्यानि । आ । गतम् । पिबतम् । सोम्यम् । मधु ॥indrāgnī iti | śṛṇutam | havam | yajamānasya | sunvataḥ | vītam | havyāni | ā | gatam | p ibatam | somyam | madhu