Sukta 6.58
यास्ते पूषन्नावो अन्तः समुद्रे हिरण्ययीरन्तरिक्षे चरन्ति । ताभिर्यासि दूत्यां सूर्यस्य कामेन कृत श्रव इच्छमानः ॥
यास्ते॑ पूष॒न्नावो॑ अ॒न्तः स॑मु॒द्रे हि॑र॒ण्ययी॑र॒न्तरि॑क्षे॒ चर॑न्ति । ताभि॑र्यासि दू॒त्यां सूर्य॑स्य॒ कामे॑न कृत॒ श्रव॑ इ॒च्छमा॑नः ॥
yā́s te pūṣann nā́vo antáḥ samudré hiraṇyáyīr antárikṣe cáranti | tā́bhir yāsi dūtyā́ṃ sū́ryasya kā́mena kṛtá śráva icchámānaḥ ||
ஓ பூஷன்! கடலின் உள்ளிலும் அந்தரிக்ஷத்திலும் சஞ்சரிக்கும் உன் பொன்னிற நாவுகள்—அவற்றினாலேயே நீ சூரியனின் தூத்யா (தூதுப்பணி) யில் செல்கிறாய்; காம (ஆனந்த-வேட்கை) யால் க்ருத ஶ்ரவஸ் (அடைந்த புகழ்/கேள்விப்புகழ்) ஐ விரும்புகிறவனாய்.
याः । ते॒ । पू॒ष॒न् । नावः॑ । अ॒न्तरिति॑ । स॒मु॒द्रे । हि॒र॒ण्ययीः॑ । अ॒न्तरि॑क्षे । चर॑न्ति । ताभिः॑ । या॒सि॒ । दू॒त्याम् । सूर्य॑स्य । कामे॑न । कृ॒त॒ । श्रवः॑ । इ॒च्छमा॑नः ॥याः । ते । पूषन् । नावः । अन्तरिति । समुद्रे । हिरण्ययीः । अन्तरिक्षे । चरन्ति । ताभिः । यासि । दूत्याम् । सूर्यस्य । कामेन । कृत । श्रवः । इच्छमानः ॥yāḥ | te | pūṣan | nāvaḥ | antariti | samudre | hiraṇyayīḥ | antarikṣe | caranti | tābhiḥ | yāsi | dūtyām | sūryasya | kāmena | kṛta | śravaḥ | icchamānaḥ