Sukta 6.54
समु पूष्णा गमेमहि यो गृहाँ अभिशासति । इम एवेति च ब्रवत् ॥
समु॑ पू॒ष्णा ग॑मेमहि॒ यो गृ॒हाँ अ॑भि॒शास॑ति । इ॒म ए॒वेति॑ च॒ ब्रव॑त् ॥
sám u pūṣṇā́ gamemahi yó gṛhā́n abhíśāsati | imá evéti ca brávat ||
பூஷனுடன் நாம் ஒன்றாகச் செல்வோமாக—அவர் நம்மை இல்லங்களின் நோக்கி முறையாக வழிநடத்துபவர்; மேலும் அவர், ‘இவையே நிச்சயமாக (சரியானவை)’ என்று கூறுபவர்.
सम् । ऊँ॒ इति॑ । पू॒ष्णा । ग॒मे॒म॒हि॒ । यः । गृ॒हान् । अ॒भि॒ऽशास॑ति । इ॒मे । ए॒व । इति॑ । च॒ । ब्रव॑त् ॥सम् । ऊँ इति । पूष्णा । गमेमहि । यः । गृहान् । अभिशासति । इमे । एव । इति । च । ब्रवत् ॥sam | oṃ iti | pūṣṇā | gamemahi | yaḥ | gṛhān | abhi-śāsati | ime | eva | iti | ca | bravat