Sukta 10.66
वृषा यज्ञो वृषणः सन्तु यज्ञिया वृषणो देवा वृषणो हविष्कृतः । वृषणा द्यावापृथिवी ऋतावरी वृषा पर्जन्यो वृषणो वृषस्तुभः ॥
वृषा॑ य॒ज्ञो वृष॑णः सन्तु य॒ज्ञिया॒ वृष॑णो दे॒वा वृष॑णो हवि॒ष्कृत॑: । वृष॑णा॒ द्यावा॑पृथि॒वी ऋ॒ताव॑री॒ वृषा॑ प॒र्जन्यो॒ वृष॑णो वृष॒स्तुभ॑: ॥
vṛ́ṣā yajñó vṛ́ṣaṇaḥ santu yajñíyā vṛ́ṣaṇo devā́ vṛ́ṣaṇo haviṣ-kṛ́taḥ | vṛ́ṣaṇā dyā́vāpṛthivī́ ṛtā́varī vṛ́ṣā parjányo vṛ́ṣaṇo vṛṣa-stúbhaḥ ||
யாகம் வृषா (வல்லமை) ஆகட்டும்; யாகத்திற்குரிய தேவர்கள் வृषண (வல-சொரூபம்) ஆகட்டும்; ஹவிஸ் செய்பவர்களும் வृषண ஆகட்டும். ருதாவரீயான த்யாவா-பிருதிவீ வृषணா; பர்ஜன்யன் வृषா; ஸ்தோத்திரத்தை உறுதியாகத் தாங்குபவனும் வृषண.
वृषा॑ । य॒ज्ञः । वृष॑णः । स॒न्तु॒ । य॒ज्ञियाः॑ । वृष॑णः । दे॒वाः । वृष॑णः । ह॒विः॒ऽकृतः॑ । वृष॑णा । द्यावा॑पृथि॒वी इति॑ । ऋ॒तऽव॑री॒ इत्यृ॒तऽव॑री । वृषा॑ । प॒र्जन्यः॑ । वृष॑णः । वृ॒ष॒ऽस्तुभः॑ ॥वृषा । यज्ञः । वृषणः । सन्तु । यज्ञियाः । वृषणः । देवाः । वृषणः । हविःकृतः । वृषणा । द्यावापृथिवी इति । ऋतवरी इत्यृतवरी । वृषा । पर्जन्यः । वृषणः । वृषस्तुभः ॥vṛṣā | yajñaḥ | vṛṣaṇaḥ | santu | yajñiyāḥ | vṛṣaṇaḥ | devāḥ | vṛṣaṇaḥ | haviḥ-kṛtaḥ | vṛṣaṇā | dyāvāpṛthivī iti | ṛta-varī ity ṛta-varī | vṛṣā | parjanyaḥ | vṛṣaṇaḥ | vṛṣa-stubhaḥ