Sukta 10.58
यत्ते पर्वतान्बृहतो मनो जगाम दूरकम् । तत्त आ वर्तयामसीह क्षयाय जीवसे ॥
यत्ते॒ पर्व॑तान्बृह॒तो मनो॑ ज॒गाम॑ दूर॒कम् । तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥
yát te párvatān bṛható máno jagā́ma dūrákam | tát te ā́ vartayāmasīhá kṣáyāya jīváse ||
ஓ (புருஷா), உன் மனம் பெரும் மலைகளிடம் தூரமாகச் சென்றிருந்தால், அதனை இங்கே உன்னிடமே மீண்டும் திருப்பி வரச் செய்கிறோம்—உன் க்ஷய (நிலையான வாசம்) மற்றும் உன் வாழ்விற்காக.
यत् । ते॒ । पर्व॑तान् । बृ॒ह॒तः । मनः॑ । ज॒गाम॑ । दूर॒कम् । तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥यत् । ते । पर्वतान् । बृहतः । मनः । जगाम । दूरकम् । तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥yat | te | parvatān | bṛhataḥ | manaḥ | jagāma | dūrakam | tat | te | ā | vartayāmasi | iha | kṣayāya | jīvase