Sukta 10.58
यत्ते मरीचीः प्रवतो मनो जगाम दूरकम् । तत्त आ वर्तयामसीह क्षयाय जीवसे ॥
यत्ते॒ मरी॑चीः प्र॒वतो॒ मनो॑ ज॒गाम॑ दूर॒कम् । तत्त॒ आ व॑र्तयामसी॒ह क्षया॑य जी॒वसे॑ ॥
yát te marī́cīḥ prá-vato máno jagā́ma dūrákam | tát te ā́ vartayāmasīhá kṣáyāya jīváse ||
ஓ (புருஷா)! உன்னுள் உள்ளதாய்—உன் மனம்—மரீசிகளின் (ஒளிக்கதிர்களின்) ஓடும் ஓட்டங்களோடு, இயக்கத்தின் சரிவுகள் வழியே, தூரம் சென்றிருந்தால்—அதை இங்கே உன்னிடமே மீண்டும் திருப்பி வரச் செய்கிறோம்; உன் க்ஷய (நிலையான வாசம்) மற்றும் ஜீவஸே (வாழ்வு)க்காக.
यत् । ते॒ । मरी॑चीः । प्र॒ऽवतः॑ । मनः॑ । ज॒गाम॑ । दूर॒कम् । तत् । ते॒ । आ । व॒र्त॒या॒म॒सि॒ । इ॒ह । क्षया॑य । जी॒वसे॑ ॥यत् । ते । मरीचीः । प्रवतः । मनः । जगाम । दूरकम् । तत् । ते । आ । वर्तयामसि । इह । क्षयाय । जीवसे ॥yat | te | marīcīḥ | pra-vataḥ | manaḥ | jagāma | dūrakam | tat | te | ā | vartayāmasi | iha | kṣayāya | jīvase