Sukta 10.50
एता विश्वा सवना तूतुमा कृषे स्वयं सूनो सहसो यानि दधिषे । वराय ते पात्रं धर्मणे तना यज्ञो मन्त्रो ब्रह्मोद्यतं वचः ॥
ए॒ता विश्वा॒ सव॑ना तूतु॒मा कृ॑षे स्व॒यं सू॑नो सहसो॒ यानि॑ दधि॒षे । वरा॑य ते॒ पात्रं॒ धर्म॑णे॒ तना॑ य॒ज्ञो मन्त्रो॒ ब्रह्मोद्य॑तं॒ वच॑: ॥
etā́ víśvā sávanā tūtumā́ kṛṣe svayáṃ sū́no sahaso yā́ni dadhíṣe | várāya te pā́traṃ dhármaṇe tánā yajñó mántro bráhmodýataṃ vácaḥ ||
ஓ சகஸஃ சூனோ (வலத்தின் புதல்வனே)! இவை அனைத்தும்—சோம-ஸவனங்கள் (சோம நிஷ்பீடனங்கள்)—நீயே செயற்பாட்டிற்காகத் தூண்டுகிறாய்; மேலும் வேண்டியவற்றை எங்களுள் நீ நிறுவுகிறாய். உன் வரத்திற்காகப் பாத்திரம் உள்ளது; தர்மம் (த/நேரிய செயல்-நியதி) காக்க யாகம் உள்ளது; மந்திரம் உள்ளது; மேலும் பிரஹ்மனின் உயர்த்தப்பட்ட வாக்கு உள்ளது—சத்திய-வலிமையைச் சுமக்க உயர்த்தப்பட்டது.
ए॒ता । विश्वा॑ । सव॑ना । तू॒तु॒मा । कृ॒षे॒ । स्व॒यम् । सू॒नो॒ इति॑ । स॒ह॒सः॒ । यानि॑ । द॒धि॒षे । वरा॑य । ते॒ । पात्र॑म् । धर्म॑णे । तना॑ । य॒ज्ञः । मन्त्रः॒ । ब्रह्म॑ । उ॒त्ऽय॑तम् । वचः॑ ॥एता । विश्वा । सवना । तूतुमा । कृषे । स्वयम् । सूनो इति । सहसः । यानि । दधिषे । वराय । ते । पात्रम् । धर्मणे । तना । यज्ञः । मन्त्रः । ब्रह्म । उत्यतम् । वचः ॥etā | viśvā | savanā | tūtumā | kṛṣe | svayam | sūno iti | sahasaḥ | yāni | dadhiṣe | varāya | te | pātram | dharmaṇe | tanā | yajñaḥ | mantraḥ | brahma | ut-yatam | vacaḥ