Sukta 10.179
उत्तिष्ठताव पश्यतेन्द्रस्य भागमृत्वियम् । यदि श्रातो जुहोतन यद्यश्रातो ममत्तन ॥
उत्ति॑ष्ठ॒ताव॑ पश्य॒तेन्द्र॑स्य भा॒गमृ॒त्विय॑म् । यदि॑ श्रा॒तो जु॒होत॑न॒ यद्यश्रा॑तो मम॒त्तन॑ ॥
uttíṣṭhatā́va paśyaténdrasya bhāgám ṛtvíyam | yádi śrātó juhótana yády aśrātó mamáttana ||
எழுந்து நோக்குங்கள்—ऋत्विज்-யாகத்திற்குரிய இந்திரனின் நியதிப் பங்கை. நீங்கள் ‘श्रात’ (தயார்) என்றால் ஆஹுதியை அளியுங்கள்; ‘अश्रात’ என்றால், உங்களுள் மகிழ்ச்சியும் ஆயத்தமும் எழும்புமாறு தீப்பற்றச் செய்யுங்கள்.
उत् । ति॒ष्ठ॒त॒ । अव॑ । प॒श्य॒त॒ । इन्द्र॑स्य । भा॒गम् । ऋ॒त्विय॑म् । यदि॑ । श्रा॒तः । जु॒होत॑न । यदि॑ । अश्रा॑तः । म॒म॒त्तन॑ ॥उत् । तिष्ठत । अव । पश्यत । इन्द्रस्य । भागम् । ऋत्वियम् । यदि । श्रातः । जुहोतन । यदि । अश्रातः । ममत्तन ॥ut | tiṣṭhata | ava | paśyata | indrasya | bhāgam | ṛtviyam | yadi | śrātaḥ | juhotana | yadi | aśrātaḥ | mamattana