Sukta 10.168
अन्तरिक्षे पथिभिरीयमानो न नि विशते कतमच्चनाहः । अपां सखा प्रथमजा ऋतावा क्व स्विज्जातः कुत आ बभूव ॥
अ॒न्तरि॑क्षे प॒थिभि॒रीय॑मानो॒ न नि वि॑शते कत॒मच्च॒नाह॑: । अ॒पां सखा॑ प्रथम॒जा ऋ॒तावा॒ क्व॑ स्विज्जा॒तः कुत॒ आ ब॑भूव ॥
antárikṣe pathíbhir ī́yamāno ná ní viśate katamáccanáh | apā́ṁ sákhā prathamajā́ ṛtā́vā kvà svíj jā́taḥ kúta ā́ babhūva ||
அந்தரிக்ஷத்தின் பாதைகளில் சென்று கொண்டிருப்பவன் எந்த நாளிலும் சிறிதும் தங்குவதில்லை. அவன் ‘அபாம் ஸகா’—நீரின் நண்பன்—முதற்பிறவி, ‘ருதாவான்’ (ருதத்தின் காவலன்); அவன் உண்மையில் எங்கே பிறந்தான், எங்கிருந்து தோன்றினான்?
अ॒न्तरि॑क्षे । प॒थिऽभिः । ईय॑मानः । न । नि । वि॒श॒ते॒ । क॒त॒मत् । च॒न । अह॒रिति॑ । अ॒पाम् । सखा॑ । प्र॒थ॒म॒ऽजाः । ऋ॒तऽवा॑ । क्व॑ । स्वि॒त् । जा॒तः । कुतः॑ । आ । ब॒भू॒व॒ ॥अन्तरिक्षे । पथिभिः । ईयमानः । न । नि । विशते । कतमत् । चन । अहरिति । अपाम् । सखा । प्रथमजाः । ऋतवा । क्व । स्वित् । जातः । कुतः । आ । बभूव ॥antarikṣe | pathi-bhiḥ | īyamānaḥ | na | ni | viśate | katamat | cana | ahariti | apām | sakhā | prathama-jāḥ | ṛta-vā | kva | svit | jātaḥ | kutaḥ | ā | babhūva