Sukta 10.101
व्रजं कृणुध्वं स हि वो नृपाणो वर्म सीव्यध्वं बहुला पृथूनि । पुरः कृणुध्वमायसीरधृष्टा मा वः सुस्रोच्चमसो दृंहता तम् ॥
व्र॒जं कृ॑णुध्वं॒ स हि वो॑ नृ॒पाणो॒ वर्म॑ सीव्यध्वं बहु॒ला पृ॒थूनि॑ । पुर॑: कृणुध्व॒माय॑सी॒रधृ॑ष्टा॒ मा व॑: सुस्रोच्चम॒सो दृंह॑ता॒ तम् ॥
vrajaṃ kṛṇudhvam sa hi vo nṛpāṇo varma sīvyadhvaṃ bahulā pṛthūni | puraḥ kṛṇudhvam āyasīr adhṛṣṭā mā vaḥ susroc camaso dṛṃhatā tam ||
வ்ரஜம் (வேலி/அடைப்பு) அமைக்குங்கள்—அதுவே உங்கள் ந்ருபாணம் (போஷகப் பானம்/ஆதாரம்). பலவும் அகலமும் உடைய கவசங்களைத் தைத்து இணைக்குங்கள். இரும்புக் காவல்களை (புரः) முன்புறம் நிறுவுங்கள்—அத்ருஷ்ட, அசைக்க முடியாதவை. உங்கள் அமஸ் (பாத்திரம்/கோப்பை) ஒழுகாதபடி—அதை உறுதியாக வலுப்படுத்துங்கள்.
व्र॒जम् । कृ॒णु॒ध्व॒म् । सः । हि । वः॒ । नृ॒ऽपानः॑ । वर्म॑ । सी॒व्य॒ध्व॒म् । ब॒हु॒ला । पृ॒थूनि॑ । पुरः॑ । कृ॒णु॒ध्व॒म् । आय॑सीः । अधृ॑ष्टाः । मा । वः॒ । सु॒स्रो॒त् । च॒म॒सः । दृंह॑त । तम् ॥व्रजम् । कृणुध्वम् । सः । हि । वः । नृपानः । वर्म । सीव्यध्वम् । बहुला । पृथूनि । पुरः । कृणुध्वम् । आयसीः । अधृष्टाः । मा । वः । सुस्रोत् । चमसः । दृंहत । तम् ॥vrajam | kṛṇudhvam | saḥ | hi | vaḥ | nṛ-pānaḥ | varma | sīvyadhvam | bahulā | pṛthūni | puraḥ | kṛṇudhvam | āyasīḥ | adhṛṣṭāḥ | mā | vaḥ | susrot | camasaḥ | dṛṃhata | tam