Sukta 10.1
अग्रे बृहन्नुषसामूर्ध्वो अस्थान्निर्जगन्वान्तमसो ज्योतिषागात् । अग्निर्भानुना रुशता स्वङ्ग आ जातो विश्वा सद्मान्यप्राः ॥
अग्रे॑ बृ॒हन्नु॒षसा॑मू॒र्ध्वो अ॑स्थान्निर्जग॒न्वान्तम॑सो॒ ज्योति॒षागा॑त् । अ॒ग्निर्भा॒नुना॒ रुश॑ता॒ स्वङ्ग॒ आ जा॒तो विश्वा॒ सद्मा॑न्यप्राः ॥
ágre bṛhánn uṣásām ūrdhvó asthān nir-jagánvān támaso jyótiṣā́gāt | agnír bhānúnā rúśatā́ sváṅga ā́ jā́to víśvā́ sádmāny aprāḥ ||
ஆரம்பத்தில், மாபெரும் அவர், உஷஸ்களின் முன் உயர்ந்து நின்றார்; இருளிலிருந்து தாவி, ஒளியின் வலிமையால் வந்தார். அக்னி, தன் தீப்தமான பானு-ஒளியால், அழகிய அங்கங்களுடன், பிறந்தவுடன் எங்கள் எல்லாச் சத்மங்களையும்—எல்லா இருப்பிடங்களையும்—நிறைத்தான்.
अग्ने॑ । बृ॒हन् । उ॒षसा॑म् । ऊ॒र्ध्वः । अ॒स्था॒त् । निः॒ऽज॒ग॒न्वान् । तम॑सः । ज्योति॑षा । आ । अ॒गा॒त् । अ॒ग्निः । भा॒नुना॑ । रुश॑ता । सु॒ऽअङ्गः॑ । आ । जा॒तः । विश्वा॑ । सद्मा॑नि । अ॒प्राः॒ ॥अग्ने । बृहन् । उषसाम् । ऊर्ध्वः । अस्थात् । निःजगन्वान् । तमसः । ज्योतिषा । आ । अगात् । अग्निः । भानुना । रुशता । सुअङ्गः । आ । जातः । विश्वा । सद्मानि । अप्राः ॥agne | bṛhan | uṣasām | ūrdhvaḥ | asthāt | niḥ-jaganvān | tamasaḥ | jyotiṣā | ā | agāt | agniḥ | bhānunā | ruśatā | su-aṅgaḥ | ā | jātaḥ | viśvā | sadmāni | aprāḥ