Sukta 1.52
आर्चन्नत्र मरुतः सस्मिन्नाजौ विश्वे देवासो अमदन्ननु त्वा । वृत्रस्य यद्भृष्टिमता वधेन नि त्वमिन्द्र प्रत्यानं जघन्थ ॥
आर्च॒न्नत्र॑ म॒रुत॒: सस्मि॑न्ना॒जौ विश्वे॑ दे॒वासो॑ अमद॒न्ननु॑ त्वा । वृ॒त्रस्य॒ यद्भृ॑ष्टि॒मता॑ व॒धेन॒ नि त्वमि॑न्द्र॒ प्रत्या॒नं ज॒घन्थ॑ ॥
ā́rcann átra marútaḥ sásmin ājā́u víśve devā́so amádann ánu tvā | vṛtrásya yád bhṛṣṭi-mátā vadhéna ní tvám indra práty-ā́nám jaghántha ||
இப்போர்க்களத்தில் மருத்-கணங்கள் பாடினர்; உன்னைத் தொடர்ந்து எல்லாத் தேவர்களும் மகிழ்ந்தனர். வ்ருத்ரனுக்கு எதிராக, ஹே இந்திரா, கொல்லும் ஒளிவீசும் ஆயுதத்தால் நீ ‘ப்ரத்யான்’—எதிர்த்து நின்ற பகைவன்—ஐ வீழ்த்தினாய்.
आर्च॑न् । अत्र॑ । म॒रुतः॑ । सस्मि॑न् । आ॒जौ । विश्वे॑ । दे॒वासः॑ । अ॒म॒द॒न् । अनु॑ । त्वा॒ । वृ॒त्रस्य॑ । यत् । भृ॒ष्टि॒ऽमता॑ । व॒धेन॑ । नि । त्वम् । इ॒न्द्र॒ । प्रति॑ । आ॒नम् । ज॒घन्थ॑ ॥आर्चन् । अत्र । मरुतः । सस्मिन् । आजौ । विश्वे । देवासः । अमदन् । अनु । त्वा । वृत्रस्य । यत् । भृष्टिमता । वधेन । नि । त्वम् । इन्द्र । प्रति । आनम् । जघन्थ ॥ārcan | atra | marutaḥ | sasmin | ājau | viśve | devāsaḥ | amadan | anu | tvā | vṛtrasya | yat | bhṛṣṭi-matā | vadhena | ni | tvam | indra | prati | ānam | jaghantha