Sukta 1.33
आवः शमं वृषभं तुग्र्यासु क्षेत्रजेषे मघवञ्छ्वित्र्यं गाम् । ज्योक्चिदत्र तस्थिवांसो अक्रञ्छत्रूयतामधरा वेदनाकः ॥
आव॒: शमं॑ वृष॒भं तुग्र्या॑सु क्षेत्रजे॒षे म॑घव॒ञ्छ्वित्र्यं॒ गाम् । ज्योक्चि॒दत्र॑ तस्थि॒वांसो॑ अक्रञ्छत्रूय॒तामध॑रा॒ वेद॑नाकः ॥
ā́vaḥ śámaṃ vṛṣabháṃ tugryā́su kṣetrajéṣe maghavan śvitryáṃ gā́m | jyók cid átra tasthivā́ṃso akrañ chatrūyatā́m ádharā védanākaḥ ||
ஓ மகவன்! துக்ரியர்களிடையே வृषபமான ஶமனை நீ உதவினாய்—களத்தை வெல்ல; மேலும் ஶ்வித்ர்ய (ஒளிவாய்ந்த) பசுவையும் நீ காத்தாய். நீண்ட காலத்திற்குப் பிறகும், அங்கே நிலைத்திருந்தோர் பகைவரைத் தாழ்த்தினர்—உன் துணை வாழ்க்கையின் போட்டிக் களத்தில் நிலையான ஆட்சி நிலைநிறுத்துகிறது.
आवः॑ । शम॑म् । वृ॒ष॒भम् । तुग्र्या॑सु । क्षे॒त्र॒ऽजे॒षे । म॒घ॒ऽव॒न् । श्वित्र्य॑म् । गाम् । ज्योक् । चि॒त् । अत्र॑ । त॒स्थि॒ऽवांसः॑ । अ॒क्र॒न् । श॒त्रु॒ऽय॒ताम् । अध॑रा । वेद॑ना । अ॒क॒रित्य॑कः ॥आवः । शमम् । वृषभम् । तुग्र्यासु । क्षेत्रजेषे । मघवन् । श्वित्र्यम् । गाम् । ज्योक् । चित् । अत्र । तस्थिवांसः । अक्रन् । शत्रुयताम् । अधरा । वेदना । अकरित्यकः ॥āvaḥ | śamam | vṛṣabham | tugryāsu | kṣetra-jeṣe | magha-van | śvitryam | gām | jyok | cit | atra | tasthi-vāṃsaḥ | akran | śatru-yatām | adharā | vedanā | akar ity akaḥ