Sukta 1.141
त्वमग्ने शशमानाय सुन्वते रत्नं यविष्ठ देवतातिमिन्वसि । तं त्वा नु नव्यं सहसो युवन्वयं भगं न कारे महिरत्न धीमहि ॥
त्वम॑ग्ने शशमा॒नाय॑ सुन्व॒ते रत्नं॑ यविष्ठ दे॒वता॑तिमिन्वसि । तं त्वा॒ नु नव्यं॑ सहसो युवन्व॒यं भगं॒ न का॒रे म॑हिरत्न धीमहि ॥
tvám agne śaśamānā́ya sunvaté rátnam yáviṣṭha devátātim invasi | táṃ tvā nú návyaṃ sahaso yúvan vayáṃ bhágam ná kāré mahí-ratna dhīmahi ||
ஓ அக்னியே, சோமத்தைப் பிழியும் முயற்சியுடைய யஜமானனுக்காக, ஓ யவிஷ்டா, நீ ரத்னத்தையும் தேவதாதி (தேவ-சக்திகளின் தொகுதி) யையும் இயக்குகின்றாய். ஆகவே, ஓ ஸஹஸின் நவ்யா, வலிமையால் இளமையுற்றவனே, எங்கள் கர்மத்தில் பகனைப் போல உன்னை நாம் தாங்கிக் கொள்கிறோம்—ஓ மாபெரும் ரத்னம் தாங்குபவனே (மிகு செல்வத்தின் வாகனமே).
त्वम् । अ॒ग्ने॒ । श॒श॒मा॒नाय॑ । सु॒न्व॒ते । रत्न॑म् । य॒वि॒ष्ठ॒ । दे॒वता॑तिम् । इ॒न्व॒सि॒ । त्वम् । त्वा॒ । नु । नव्य॑म् । स॒ह॒सः॒ । यु॒व॒न् । व॒यम् । भग॑म् । न । का॒रे । म॒हि॒ऽर॒त्न॒ । धी॒म॒हि॒ ॥त्वम् । अग्ने । शशमानाय । सुन्वते । रत्नम् । यविष्ठ । देवतातिम् । इन्वसि । त्वम् । त्वा । नु । नव्यम् । सहसः । युवन् । वयम् । भगम् । न । कारे । महिरत्न । धीमहि ॥tvam | agne | śaśamānāya | sunvate | ratnam | yaviṣṭha | devatātim | invasi | tvam | tvā | nu | navyam | sahasaḥ | yuvan | vayam | bhagam | na | kāre | mahi-ratna | dhīmahi