Adhyaya 133
Varaha PuranaAdhyaya 13313 Shlokas

Adhyaya 133: Expiations for ritual-time impurity and the offense of defecation/urination in a sacred context

Pūjāsāmāyika-gūdra-vāpūrīṣotsarjana-prāyaścitta

Ritual-Manual (Prāyaścitta) / Ethical-Discourse (Purity and Social Conduct)

अध्यायः १३३ वराहः पृथिवीं प्रति उपदिशति—पूजासामायिककाले देहाशौचदोषानां तथा देवालयादिषु मलमूत्रोत्सर्गापराधस्य प्रायश्चित्तम्। तस्य सन्निधिस्पर्शेन वातजन्यकर्मदोषविमोचनं कथयित्वा, व्रतप्रतिज्ञां कृत्वा नियमभङ्गे पशुयोनिप्राप्तिं रौरवनरकदण्डं च वर्णयति। पृथिवी वराहकर्मनिष्ठस्य पापपरिमाणं शुद्ध्युपायं च पृच्छति। वराहः अग्निसम्बद्धतपः, शयननियमादि नियतव्रतानि निर्दिश्य, शमदमादिभिः शुद्धिः, अपराधक्षयः, वराहलोकप्राप्तिश्च भवतीति निष्कर्षयति।

Primary Speakers

VarāhaPṛthivī (Vasundharā/Dharaṇī/Bhūmi)

Key Concepts

prāyaścitta (expiation and ritual repair)śauca/aśauca (purity and impurity linked to bodily waste)aparādha (ritual-moral offense) and karmic consequencenaraka (Raurava) as deterrent discoursedisciplinary austerity (tapas) and regulated conductterrestrial sanctity (Bhūmi as ethical interlocutor)

Shlokas in Adhyaya 133

Verse 1

अथ पूजासामयिकगुदरवपुरीषोत्सर्जनयोः प्रायश्चित्तम् ॥ श्रीवराह उवाच ॥ स्पृशमानेन मां भूमे वातकर्म प्रमुच्यते ॥ एवं च पुरुषो युक्तो वायुपीडितमानसः ॥

अथ पूजासामयिकगुदरवपुरीषोत्सर्जनयोः प्रायश्चित्तम् । श्रीवराह उवाच । स्पृशमानेन मां भूमे वातकर्म प्रमुच्यते । एवं च पुरुषो युक्तो वायुपीडितमानसः ॥

Verse 2

मक्षिका पञ्च वर्षाणि त्रीणि वर्षाणि मूषकः ॥ श्वा चैव त्रीणि वर्षाणि कूर्मो वै जायते नव ॥

मक्षिका पञ्च वर्षाणि त्रीणि वर्षाणि मूषकः । श्वा चैव त्रीणि वर्षाणि कूर्मो वै जायते नव ॥

Verse 3

एष वै तापनं देवि मोहनं मम सांप्रतम् ॥ यो वै शास्त्रं विजानाति मम कर्मपरायणः ॥

एष वै तापनं देवि मोहनं मम सांप्रतम् । यो वै शास्त्रं विजानाति मम कर्मपरायणः ॥

Verse 4

श्रुत्वा वाक्यं हृषीकेशं प्रत्युवाच वसुंधरा ॥ धरण्युवाच ॥ अतुलं लभते पापं तव कर्मपरायणः ॥

हृषीकेशस्य वचनं श्रुत्वा वसुन्धरा प्रत्युवाच। धरण्युवाच—तव कर्मपरायणः पुरुषोऽतुलं पापं लभते।

Verse 5

तस्य देव सुखार्थाय विशुद्धिं वक्तुमर्हसि ॥ श्रीवराह उवाच ॥ शृणु कार्त्स्न्येन मे देवि कथ्यमानं मया अनघे ॥

तस्य देव सुखार्थाय विशुद्धिं वक्तुमर्हसि। श्रीवराह उवाच—शृणु कार्त्स्न्येन मे देवि, कथ्यमानं मया अनघे।

Verse 6

अपराधमिमं कृत्वा सन्तरेद्येन कर्मणा ॥ पावकेन दिनं त्रीणि नक्तानि च पुनस्त्रयः ॥

अपराधमिमं कृत्वा सन्तरेद्येन कर्मणा? पावकेन दिनं त्रीणि, नक्तानि च पुनस्त्रयः।

Verse 7

कर्म चैवं ततः कृत्वा स च मे नापराध्यति ॥ सर्वसङ्गं परित्यज्य मम लोकं स गच्छति ॥

कर्म चैवं ततः कृत्वा स च मे नापराध्यति। सर्वसङ्गं परित्यज्य मम लोकं स गच्छति।

Verse 8

एतत्ते कथितं भद्रे महाकर्मापराधिनः ॥ दोषं चैव गुणं चैव यत्त्वया परिपृच्छितम् ॥

एतत्ते कथितं भद्रे महाकर्मापराधिनः। दोषं चैव गुणं चैव यत्त्वया परिपृच्छितम्।

Verse 9

शृणु तत्त्वेन मे भूमे कथ्यमानं मया अनघे ॥ पुरीषं मुच्यते यस्तु मम कर्म समाचरन् ॥

शृणु तत्त्वेन मे भूमे, मया कथ्यमानम् अनघे। यस्तु मम कर्म समाचरन्, स पुरीषाद् अपि मुच्यते॥

Verse 10

प्रायश्चित्तं वदाम्यत्र येन मुच्येत किल्बिषात् ॥ मम कर्मपरिभ्रष्टो विह्वलेनान्तरात्मना ॥

प्रायश्चित्तं वदाम्यत्र येन मुच्येत किल्बिषात्। मम कर्मपरिभ्रष्टो विह्वलेनान्तरात्मना॥

Verse 11

एकां जलमयीं शय्यामेकामाकाशशायिनीम् ॥ एवं कृत्वा विधानं तु सोऽपराधात्प्रमुच्यते ॥

एकां जलमयीं शय्याम् एकाम् आकाशशायिनीम्। एवं कृत्वा विधानं तु सोऽपराधात् प्रमुच्यते॥

Verse 12

एतत्ते कथितं भद्रे पुरीषं यः समुत्सृजेत् ॥ मद्भक्तेषु विशालाक्षि अपराधविनिश्चयः ॥

एतत्ते कथितं भद्रे, पुरीषं यः समुत्सृजेत्। मद्भक्तेषु विशालाक्षि, अपराधविनिश्चयः॥

Verse 13

दिव्यवर्षसहस्रं तु रौरवे नरके वसेत् ॥ पुरीषं भक्षयेत्तत्र मम कर्मपरायणः ॥

दिव्यवर्षसहस्रं तु रौरवे नरके वसेत्। पुरीषं भक्षयेत्तत्र मम कर्मपरायणः॥

Frequently Asked Questions

The text frames bodily restraint and respect for ritual-terrestrial sanctity as ethical obligations: violations involving impurity and waste-discharge are treated as aparādha requiring prāyaścitta, and disciplined corrective observances are presented as restoring moral-ritual order and social conduct.

The chapter does not specify tithi, lunar month, or seasonal timing. It does, however, quantify durations for observances and consequences (e.g., three days/nights in certain austerities; multi-year animal-rebirth durations; and a thousand divine years in Raurava).

By staging Bhūmi/Pṛthivī as the questioning interlocutor and linking impurity (especially waste-discharge) to moral fault, the narrative implies that bodily waste management is not merely private but impacts the sanctity of the Earth; prāyaścitta functions as a mechanism to re-stabilize the human–terrestrial relationship through regulated conduct.

No royal lineages, dynastic lists, or named sages are referenced in this passage. The only explicit figures are Varāha and Bhūmi (Vasundharā/Dharaṇī), with cosmological reference to Raurava (naraka).