Prashna
यदा त्वमभिवर्षस्यथेमाः प्राण ते प्रजाः । आनन्दरूपास्तिष्ठन्ति कामायान्नं भविष्यतीति ॥१०॥
यदा । त्वम् । अभिवर्षसि । अथ । इमाः । प्राण । ते । प्रजाः । आनन्दरूपाः । तिष्ठन्ति । कामाय । अन्नम् । भविष्यति । इति ॥
yadā tvam abhivarṣasy atha imāḥ prāṇa te prajāḥ | ānandarūpās tiṣṭhanti kāmāyānnaṃ bhaviṣyatīti ||10||
यदा त्वं वर्षसि, तदा हे प्राण, तवेमाः प्रजाः आनन्दरूपाः स्थित्वा मन्यन्ते—यथाकामं नूनम् अन्नं भविष्यतीति॥
When you rain down (upon them), then these creatures of yours, O Prāṇa, stand (exist) in the form of joy, thinking: ‘Food will come according to desire.’