Nirvana
अथ निर्वाणोपनिषदं व्याख्यास्यामः । परमहंसः सोऽहम् । परिव्राजकाः पश्चिमलिङ्गाः । मन्मथः क्षेत्रपालः । गगनसिद्धान्तः अमृतकल्लोलनदी । अक्षयं निरञ्जनम् । निःसंशय ऋषिः । निर्वाणो देवता । निष्कुलप्रवृत्तिः । निष्केवलज्ञानम् ॥१–११॥
अथ । निर्वाण-उपनिषदम् । व्याख्यास्यामः । परमहंसः । सः । अहम् । परिव्राजकाः । पश्चिम-लिङ्गाः । मन्मथः । क्षेत्र-पालः । गगन-सिद्धान्तः । अमृत-कल्लोल-नदी । अक्षयम् । निरञ्जनम् । निःसंशयः । ऋषिः । निर्वाणः । देवता । निष्कुल-प्रवृत्तिः । निष्केवल-ज्ञानम् ॥
atha nirvāṇopaniṣadaṃ vyākhyāsyāmaḥ | paramahaṃsaḥ so’ham | parivrājakāḥ paścimaliṅgāḥ | manmathaḥ kṣetrapālaḥ | gaganasiddhāntaḥ amṛtakallolanadī | akṣayaṃ nirañjanam | niḥsaṃśaya ṛṣiḥ | nirvāṇo devatā | niṣkulapravṛttiḥ | niṣkevalajñānam ||1–11||
अथ निर्वाणोपनिषदं व्याख्यास्यामः। परमहंसः सोऽहमिति। परिव्राजकाः पश्चिमलिङ्गाः। मन्मथः क्षेत्रपालः। गगनसिद्धान्तः, अमृतकल्लोलनदी। अक्षयं निरञ्जनम्। निःसंशय ऋषिः। निर्वाणो देवता। निष्कुलप्रवृत्तिः। निष्केवलज्ञानम्॥
Now we shall expound the Nirvāṇa Upaniṣad. “I am the Paramahaṃsa.” The wandering renunciants are the ‘western marks.’ Manmatha is the guardian of the precinct. The doctrine is the ‘sky’; the river is the nectar‑river of surging waves. (It is) imperishable, stainless. Niḥsaṃśaya is the seer. Nirvāṇa is the deity. The activity is without lineage. The knowledge is non‑dual.