ब्रह्मैव स्वशक्तिं प्रकृत्यभिधेयामाश्रित्य लोकान् सृष्ट्वा प्रविश्यान्तर्यामित्वेन ब्रह्मादीनां बुद्धीन्द्रियनियन्तृत्वाद् ईश्वरः॥ जीव इति च ब्रह्मविष्ण्वीशानेन्द्रादीनां नामरूपद्वारा स्थूलोऽहमिति मिथ्याध्यासवशाज् जीवः। सोऽहमेकोऽपि देहारम्भकभेदवशाद् बहुजीवः॥५॥
ब्रह्म । एव । स्व-शक्तिम् । प्रकृतिअभिधेयाम् । आश्रित्य । लोकान् । सृष्ट्वा । प्रविश्य । अन्तर्यामित्वेन । ब्रह्म-आदीनाम् । बुद्धि-इन्द्रिय-नियन्तृत्वात् । ईश्वरः ॥ जीवः । इति । च । ब्रह्म-विष्णु-ईशान-इन्द्र-आदीनाम् । नाम-रूप-द्वारा । स्थूलः । अहम् । इति । मिथ्या-अध्यास-वशात् । जीवः । सः । अहम् । एकः । अपि । देह-आरम्भक-भेद-वशात् । बहु-जीवः ॥५॥
brahmaiva svaśaktiṃ prakṛty-abhidheyām āśritya lokān sṛṣṭvā praviśyāntaryāmitvena brahmādīnāṃ buddhīndriya-niyantṛtvād īśvaraḥ॥ jīva iti ca brahma-viṣṇv-īśānendrādīnāṃ nāmarūpa-dvārā sthūlo 'ham iti mithyādhyāsa-vaśāj jīvaḥ। so 'ham eko 'pi dehārambhaka-bheda-vaśād bahujīvaḥ॥5॥
ब्रह्मैव स्वशक्तिं प्रकृत्यभिधेयामाश्रित्य लोकान् सृष्ट्वा तेषु प्रविश्य, अन्तर्यामित्वेन ब्रह्मादीनां बुद्धीन्द्रियनियन्तृत्वात् ईश्वरः। तथा ब्रह्मविष्ण्वीशानेन्द्रादीनां नामरूपद्वारा ‘स्थूलोऽहम्’ इति मिथ्याध्यासवशात् जीव इति कथ्यते। सोऽहम् एकोऽपि देहारम्भकभेदवशात् बहुजीवत्वं प्रतिपद्यते॥५॥
Brahman alone, resorting to Its own power called Prakṛti, having created the worlds and entered (them), is Īśvara by virtue of being the inner ruler and the controller of the intellect and senses of Brahmā and the others. And ‘jīva’ is (so called) due to false superimposition—through name and form such as Brahmā, Viṣṇu, Īśāna, Indra, and the rest—(thinking) ‘I am the gross (body).’ Though the ‘I’ is one, it becomes many jīvas owing to differences in the bodies and their constituent beginnings.
Answers come straight from the texts, with the shlokas they draw on. Ask in your own words.
A free sign-in with Google or Apple keeps your chat saved across web and the app.
Read Upanishads in the Vedapath app
Scan the QR code to open this directly in the app, with word-by-word meanings, Sanskrit recitation where available, and more.