Naadbindu
सहस्रार्णमतीवात्र मन्त्र एष प्रदर्शितः । एवमेतां समारूढो हंसयोगविचक्षणः ॥
न भिद्यते कर्मजैः पापकोटिशतैरपि । आग्नेयी प्रथमा मात्रा वायव्येषा तथापरा ॥
भानुमण्डलसंकाशा भवेन्मात्रा तथोत्तरा । परमा चार्धमात्रा या वारुणीं तां विदुर्बुधाः ॥५-७॥
सहस्र-अर्णम् अतीव अत्र । मन्त्रः एषः प्रदर्शितः । एवम् एताम् समारूढः हंस-योग-विचक्षणः ।
न भिद्यते कर्म-जैः पाप-कोटि-शतैः अपि । आग्नेयी प्रथमा मात्रा । वायव्य-एषा तथा अपरा ।
भानु-मण्डल-संकाशा भवेत् मात्रा तथा उत्तरा । परमा च अर्ध-मात्रा या । वारुणीम् ताम् विदुः बुधाः ॥५-७॥
sahasrārṇam atīvātra mantra eṣa pradarśitaḥ | evam etāṃ samārūḍho haṃsayogavicakṣaṇaḥ ||
na bhidyate karmajaiḥ pāpakoṭiśatair api | āgneyī prathamā mātrā vāyavyeṣā tathāparā ||
bhānumaṇḍalasaṅkāśā bhaven mātrā tathottarā | paramā cārdhamātrā yā vāruṇīṃ tāṃ vidur budhāḥ ||5-7||
अत्र सहस्रार्णमन्त्रः सुस्पष्टं प्रदर्शितः। एवं तामारूढः हंसयोगविशारदः कर्मजैः पापकोटिशतैरपि न भिद्यते। प्रथमा मात्रा आग्नेयी, अपरा वायवी; उत्तरा भानुमण्डलसंकाशा; या परमा अर्धमात्रा सा वारुणीति बुधाः विदुः ॥५-७॥
Here the mantra of a thousand syllables is indeed set forth. Having thus mounted it, the adept skilled in Haṃsa-yoga is not pierced even by hundreds of crores of sins born of actions. The first mātrā is fiery; the next is airy. The subsequent mātrā is like the orb of the sun. And the supreme half-mātrā—wise men know that as ‘vāruṇī’.