Naadbindu
सर्वचिन्तां समुत्सृज्य सर्वचेष्टाविवर्जितः । नादमेवानुसंदध्यान्नादे चित्तं विलीयते॥४१॥
सर्व-चिन्ताम् । समुत्सृज्य । सर्व-चेष्टा-विवर्जितः । नादम्-एव । अनुसंदध्यात् । नादे । चित्तम् । विलीयते ॥४१॥
sarvacintāṃ samutsṛjya sarvaceṣṭāvivarjitaḥ | nādam evānusaṃdadhyān nāde cittaṃ vilīyate ||41||
सर्वचिन्तां समुत्सृज्य, सर्वचेष्टाविवर्जितः सन्, नादमेव अनुसंदध्यात्; नादे चित्तं विलीयते।
Having cast off all thought and being devoid of all activity, one should attend to sound (nāda) alone; in sound the mind dissolves.