Ishavasya
अन्धं तमः प्रविशन्ति येऽसम्भूतिमुपासते । ततो भूय इव ते तमो य उ सम्भूत्यां रताः ॥१२॥
अन्धम् । तमः । प्रविशन्ति । ये । असम्भूतिम् । उपासते । ततः । भूयः । इव । ते । तमः । ये । उ । सम्भूत्याम् । रताः ॥
andhaṃ tamaḥ praviśanti ye ’sambhūtim upāsate | tato bhūya iva te tamo ya u sambhūtyāṃ ratāḥ ||12||
ये असम्भूतिम् उपासते ते अन्धं तमः प्रविशन्ति; ये च सम्भूत्यां रताः, ते ततोऽपि भूय इव घोरतरं तमः प्रविशन्ति।
Into blind darkness enter those who worship the unmanifest (asambhūti). Into still greater darkness, as it were, enter those who are devoted to the manifest (sambhūti).