HomeUpanishadsBrahmavidyaVerse 54
Previous Verse
Next Verse

Brahmavidya Upanishad — Verse 54

ब्रह्महत्याश्वमेधाद्यैः पुण्यपापैर्न लिप्यते । चोदको बोधकश्चैव मोक्षदश्च परः स्मृतः॥ इत्येषं त्रिविधो ज्ञेय आचार्यस्तु महीतले । चोदको दर्शयेन्मार्गं बोधकः स्थानमाचरेत्॥ मोक्षदस्तु परं तत्त्वं यज्ज्ञात्वा परमश्नुते । प्रत्यक्षयजनं देहे संक्षेपाच्छृणु गौतम॥ तेनेष्ट्वा स नरो याति शाश्वतं पदमव्ययम् । स्वयमेव तु सम्पश्येद्देहे बिन्दुं च निष्कलम्॥५१–५४॥

ब्रह्म-हत्या-अश्वमेध-आद्यैः पुण्य-पापैः न लिप्यते । चोदकः बोधकः च एव मोक्ष-दः च परः स्मृतः । इति एषः त्रि-विदः ज्ञेयः आचार्यः तु मही-तले । चोदकः दर्शयेत् मार्गम् बोधकः स्थानम् आचरेत् । मोक्ष-दः तु परम् तत्त्वम् यत् ज्ञात्वा परम् अश्नुते । प्रत्यक्ष-यजनम् देहे संक्षेपात् शृणु गौतम । तेन इष्ट्वा सः नरः याति शाश्वतम् पदम् अव्ययम् । स्वयम् एव तु सम्पश्येत् देहे बिन्दुम् च निष्कलम् ।

brahmahatyāśvamedhādyaiḥ puṇyapāpair na lipyate | codako bodhakaś caiva mokṣadaś ca paraḥ smṛtaḥ || ityeṣaṃ trividho jñeya ācāryas tu mahītale | codako darśayen mārgaṃ bodhakaḥ sthānam ācaret || mokṣadas tu paraṃ tattvaṃ yaj jñātvā param aśnute | pratyakṣayajanaṃ dehe saṃkṣepāc chṛṇu gautama || teneṣṭvā sa naro yāti śāśvataṃ padam avyayam | svayam eva tu sampaśyed dehe binduṃ ca niṣkalam ||51–54||

अश्वमेधब्रह्महत्यादिभिः पुण्यपापैः न लिप्यते। चोदको बोधकश्चैव मोक्षदश्च—एष परो गुरुः स्मृतः। आचार्यस्तु त्रिविधः—चोदको मार्गं दर्शयेत्, बोधकः स्थानाभ्यासं कारयेत्, मोक्षदः परं तत्त्वं प्रकाशयेत्; यज्ज्ञात्वा परमश्नुते। गौतम, देहे प्रत्यक्षयजनं संक्षेपात् शृणु; तेन इष्ट्वा नरः शाश्वतं पदमव्ययं याति, देहे बिन्दुं निष्कलं च स्वयमेव पश्येत्।

Not by merits and demerits such as the horse-sacrifice and brahmin-slaying is one tainted. The supreme teacher is remembered as the impeller, the awakener, and the giver of liberation. The teacher is thus threefold: the impeller shows the path; the awakener makes one practice the station; the giver of liberation reveals the highest reality, knowing which one attains the Supreme. Hear briefly, O Gautama, the direct sacrifice in the body: having performed it, a man goes to the eternal, imperishable state; and he should himself behold in the body the bindu and the partless.

Niṣkala Brahman and liberation beyond karma; internal (adhyātma) yajñaMahavakya: General alignment with mahāvākya teaching of nondual identity; no explicit mahāvākya phrasingAtharvaChandas: Anuṣṭubh (śloka)