Avadhuta
निद्राभिक्षे स्नानशौचे नेच्छामि न करोमि च । द्रष्टारश्चेत्कल्पयन्तु किं मे स्यादन्यकल्पनात् । गुञ्जापुञ्जादि दह्येत नान्यारोपितवह्निना । नान्यारोपितसंसारधर्मा नैवमहं भजे ॥१७॥
निद्रा-भिक्षे । स्नान-शौचे । न । इच्छामि । न । करोमि । च । द्रष्टारः । चेत् । कल्पयन्तु । किम् । मे । स्यात् । अन्य-कल्पनात् । गुञ्जा-पुञ्ज-आदि । दह्येत् । न । अन्य-आरोपित-वह्निना । न । अन्य-आरोपित-संसार-धर्माः । न । एव । अहम् । भजे ॥१७॥
nidrābhikṣe snānaśauce necchāmi na karomi ca | draṣṭāraś cet kalpayantu kiṃ me syād anyakalpanāt | guñjāpuñjādi dahyet nānyāropitavahninā | nānyāropitasaṃsāradharmā naivam ahaṃ bhaje ||17||
निद्राभिक्षे स्नानशौचे न इच्छामि न करोमि च। द्रष्टारश्चेत् कल्पयन्तु—अन्यकल्पनया मे किं? आरोपितवह्निना गुञ्जापुञ्जादि न दह्येत; तथैव आरोपितसंसारधर्मान् अहं न भजे॥१७॥
Sleep and alms, bathing and purity—I neither desire nor do. If observers should imagine (otherwise), what would that be to me from another’s imagining? A heap of guñjā-berries and the like would not be burned by a fire merely superimposed (in imagination). I do not partake of the attributes of saṃsāra that are superimposed by others.